________________
निशीथसूत्रे
छाया-द्विविधं रजोहरण, औणिकं च तथेतरत् ।
उत्सर्गे प्रथम ग्राहा, अपवादे च अन्यत् ॥ अवचूरिः-'दुविहं' इत्यादि। रजोहरणं द्विविधम्-और्णिकं तथा इतरत्-तद्भिन्नं च । तत्रोत्सर्गमार्गे मौर्णिक ग्रहीतव्यम् । अपवादे-ऊर्णामयस्याऽलामे तु-अन्यत् भाषिकादिकमपि रजोहरण ग्रहीतव्यम् । रजोहरणं पञ्चविधं भवति–जाङ्गमिकं १, भाङ्गिकं २, शाणकं ३, पोतकं ४, तिरीटपटकम् ५ । तत्र जागमिकं-जङ्गमप्राणिकेशविनिर्मितं, यथा और्णिकम् औष्ट्रिकमित्यादि १ । भाङ्गिक 'पाट' इति लोकप्रसिद्धं यस्य तन्तुभिः कोत्थलकं निर्मीयते तन्निर्मितम् २ । शाणकं शणसूत्रनिर्मितम् ३ । पोतकम्-पोतो वस्त्रं, तन्निर्मितं कार्पाससूत्रनिर्मितमित्यर्थः ४, तिरीटपट्टकम्-तिरीट इति वृक्षविशेषः, तस्य त्वचाविनिर्मिततन्तुसम्पादितम् ५ । पुनरपि रनोहरणं त्रिविधम्-औत्सर्गिकम् १, आपवादिकम् २, तनुभयात्मकम् ३ । तत्र औत्सर्गिक सर्वात्मना मौर्णिकम् , आपवादिकम्-भाङ्गिकादिकं चतुर्भेदकम् । तदुभयात्मकम्--ऊर्णादिमिश्रितम् । एषां मध्यात्पूर्वपूर्वाभावे परात्परं रजोहरणं ग्राह्यम् । प्रतिमाधारी श्रावकस्तु निषधा-रजोहरणोपरिवेष्टनको वस्त्रविशेषः, तद्रहितदण्डिकायुक्तं रजोहरणं धारयति । साधुसाध्वीनां तु निषधारहितदण्डिकायुक्तं रजोहरणं कथमपि न कल्पते इति ।
तत्र-रजोहरणप्रमाणमाह-रजोहरणफलिकाया हस्तिनः पदन्यासस्य यावत् प्रमाणं भवेत् तावत्प्रमाणकं रजोहरणं कर्त्तव्यम् । दण्डिकाप्रमाणमाह--गमनसमये सुखपूर्वकं यया प्रमार्जयितुं शक्यते ताशप्रमाणा लम्बायमाना रजोहरणदण्डिका ग्राह्या । लधुदण्डिकया सम्यक् प्रमार्जनं न संमवति अत एव रनोहरणे लघुदण्डिका न धार्या । तथा--रजोहरणं परित्यज्य युगकाष्ठप्रमाणभूमितो दूरं न गन्तव्यम् । अप्रमार्जितभूमौ गमने चासमाधिस्थानदोपो भवतीति दशाश्रुतस्कन्धे भगवता प्रतिपादितमिति ॥ सू० १ ॥
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणं गेण्हइ गेण्हतं वा साइज्जइ २ छाया-यो भिक्षुर्दारुदण्डकं पादप्रोञ्छनं गृह्णाति गृहन्तं वा स्वदते ॥ सू० २॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'दारुदंडयं पायपुंछणं' दारुदण्डकं पादप्रोञ्छनम् निषद्यापरिवेष्टनरहितदारुदण्डयुक्तं रजोहरणम् 'गेण्हइ' स्वयं गृह्णाति 'गेण्हतं वा साइज्जई' गृह्णन्तं वा स्वदते, गृह्णाति ग्राहयति गृह्णन्तं वा अनुमोदते स प्रायश्चित्तमाग्भवतीति ॥ सू० २ ॥
सूत्रम्--जे भिक्खू दारुदंडयं पायपुंछणं धरेइ धरतं वा साइज्जइ ३