________________
॥ द्वितीयोदेशकः ॥ कथितः प्रथमोद्देशकः, इदानीमवसरप्राप्तो द्वितीयोद्देशकः प्रारभ्यते, अस्य प्रथमोद्देशकेन सह कः सम्बन्धः ? इत्यत्राह भाष्यकारःभाष्य-पढमे गुरुमासं च, पायच्छित्तं पर्कित्तियं ।
वीए उ लहुमासं च, पायच्छित्तं कहिस्सए ॥ छाया-गुरुमासिकं च-प्रथमे, प्रायश्चित्तं प्रकीर्तितम् ।
द्वितीये तु लघुमासं च प्रायश्चित्तं कथयिष्यते ॥ अवचूरिः --'पढमे'. इत्यादि । तत्र प्रथमे-प्रथमोद्देशके हस्तकर्माधारभ्य पूतिकर्माहारपर्यन्तेपु दोपेषु 'गुरुमासं' गुरुमासिकं प्रायश्चित्तं कथितम् । द्वितीये-द्वितीयोदेशके तु 'लहुमासं' लघुमासिकं प्रायश्चित्तं कथयिप्यते । यद्वा-गुरु- इति पदं सापेक्षम् तच्च-लघुकमपेक्षतेऽतोऽत्रोद्देशके लघुप्रायश्चित्तं कथयिष्यते । अयमेव संबंधः पूर्वापरोद्देशकीयसूत्राणाम् । अथवा-प्रथमोहेशकचरमसूत्रस्थभाष्ये उपकरणपूतिकं कथितम् , इह च द्वितीयोद्देशकस्य प्रथमसूत्रे तदेवोपकरणं किम् ? इति कथयिष्यते, अयमेव संवन्धः पूर्वापरसूत्रयोः । अथवा-प्रथमोद्देशकस्यादिसूत्रे हस्तकर्मादिव्यवहारो निषिद्धः, अत्रापि दारुदण्डक--पादपोछनकरणं हस्तव्यवहार एवेति' तन्निपेधः कथयिष्यते, अयमेव संबंधः पूर्वापरसूत्रयोंर्भवति । अनेन संबन्धेनायातस्य द्वितीयोहेशकीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू दारुदंडयं पायपुंछणयं करेइ करेंतं वा साइज्जइ १ छाया- यो भिक्षुरुदंडकं पादपोंछनकं करोति कुर्वन्तं वा स्वदते ॥ सू० १॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित्- निरवभिक्षणशीलो भिक्षुः, अष्टविधकर्मणां क्षपणाय सर्वदा यतनावान् वा भिक्षुः 'दारुदंडयं पायपुंछणयं करेइ' दारुदण्डकं पादप्रोञ्चनकं करोति, तदारु-काष्ठम् , तन्मयो दंडो यस्य तदारुदण्डकम्-तादृशं काष्ठदण्डमात्रयुक्त निषद्याभिधवस्त्रवर्जितम्., एवंभूतं पादप्रोञ्छनकम् , अत्र ‘पादप्रोञ्छन'-शब्देन · रजोहरणं गृह्यते, एवंरूपं निपद्यावस्त्रविवर्जितं रजोहरणं करोति कारयति 'करेंतं वा साइज्जई कुर्वन्तं वा स्वदते-अनुमोदते तस्य मासलघुकं प्रायश्चित्तं भवति, अतो रजोहरणदण्डं वस्त्रविवर्जितं स्वयं न कुर्यान्न वा. कारयेत् तथा-कुर्वन्तमन्यं वा नाऽनुमोदेत, इति ।। सू० १॥ भाष्यम्-दुविहं रयहरणं, उणियं च तहेयरं ।
उस्सग्गे पढमं गेझं, अपवाए य अण्णयं ॥
सग्गे पदों
५.