________________
निशीथसूत्रे
भावपूतिकं च द्विप्रकारकं भवति सूक्ष्म-वादरं च । तत्र-इन्धनं दारुकम् , तस्य धूमःइन्धनधूमः, स चाऽऽधाकर्मिके भोजने रध्यमाने लोकानां प्राणप्रदेशं स्पृशति तेन छिवका जायते, ततः सर्वं पूतिकं भवति । गन्धपुद्गलैर्वा छिक्का भवति ततः सर्व पूतिकं भवति । अथवाधूमगन्धवर्जितैः सूक्ष्मावयवैश्छिक्का, ततः सर्वं पूतिकं भवतीत्येतत् सूक्ष्म पूतिकम् ।
___ वादरं त्रिप्रकारं भवति आहारे, उपधौ, शय्यायां च । तत्राहारपूतिकं चतुर्विधम् अशनादिभेदात् । आधाकर्मिकाद्याहारकणेनापि संसृष्टमाहारजातमाहारपूतिकम् १। उपधिपूतिकं द्विप्रकारकम्-वस्त्रे पात्रे च । तत्र-वस्त्रं जांगिकादिपञ्चप्रकारकभेदात् पञ्चविधम् । पात्रम्-अलावूदारु- मृत्तिकाभेदात् त्रिविधं ग्राह्यम् । धातुनिर्मितं सम्प्रतिकालप्रसिद्धं सेलोलाइटादिनिर्मितं सर्वमग्राह्यम् । ततश्च पात्रपूतिकमपि त्रिविधम् । तत्र वस्त्रे-आधाकर्मकृतेन सूत्रेण सीव्यति, थिग्गलं वा ददाति । पात्रेऽपि-आधाकर्मकृतेन सूत्रेण सीव्यति-संयोजयति थिग्गलं वा ददाति । वसतिपूतिकम्-शुद्धवसतौ आधाकर्मिकवंशकाष्ठप्रस्तरादिसंमेलनम् । यथा-वसतिनिर्माणे पद काष्ठादीनि प्राशुकानि सप्तमं किमपि वास्तुद्रव्यं चाऽऽधाकमिकं संयोजितं भवेत्तद् वसतिपूतिकं कथ्यते । विशेषतो यथाशास्त्रं ज्ञातव्यम् ॥ सू० ६०॥ इति श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभापाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थिनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालचति-विरचितायां "निशीथसूत्रस्य"
चूर्णिभाष्यावचूरिरूपायां व्याख्यायां प्रथम उद्देशकः समाप्तः ॥१॥