________________
चूर्णिभाष्यावरिः उ० १ सू० ६०
पूर्तिकर्मभाष्यम्-उद्देशसमाप्तिश्च ३१ चूर्णी- 'जे भिक्खू' इत्यादि ! 'जे भिक्खू' यो भिक्षुः 'पूइकम्मं भुंनइ' पूतिकर्म भुक्ते, तत्र-विवर्ण विनष्टं कुथितमन्नजातं पूतिकं कथ्यते, स्वसमये पुनर्विशुद्धमप्याहारादिकमाघाकर्मिकादिकणमात्रेण मिश्रितं तत्पूतिकमिति कथ्यते, एतादृशमाहारं भुक्ते भुजतं वा साइज्जई' भुञ्जन्तं पूतिकाद्याहारस्योपभोगं कुर्वन्तं स्वदतेऽनुमोदते । 'तं सेवमाणे आवज्जइ' तत्-हस्तकर्माचारभ्य पूतिकभन्तमविधिमार्ग सेवमान आपद्यते-प्राप्नोति 'मासियं परिहारहाणं अणुग्याइयं' मासिकं परिहारस्थानमनुद्घातिकम् । अनुद्घातिकं मासिकं प्रायश्चित्तं भवतीति सर्वत्र विज्ञेयम् ॥ सू० ६०॥
हस्तकर्मादारभ्य पूतिकर्मान्ताऽविधिमार्गस्य परिसेवनं कुर्वतः श्रमणादेः प्रायश्चित्तम् , तत्र किमिदं पूतिकर्म ? कतिविधं च ? तत्राह भाष्यकार:--'पूइकम्म' इत्यादि । भाष्यम्--पूइकम्मं दुहा वुत्तं, दव्वे भावे य धीमया ।
दव्वे मुन्दरदिलुतो, भावे सुहुमं च बायरं ॥ छाया-पूतिकर्म द्विधा प्रोक्तं द्रव्ये भावे च धीमता ।
द्रव्ये सुन्दरदृष्टान्तो भावे सूक्ष्मं च बादरम् ॥ अवचूरिः-तत्र-'पूति' इति कुथितमिति कथ्यते, कर्म-इत्याधाकर्मिकमिति । तच्चाऽऽधाकर्मिकं-साध्वर्थ षट्कायोपमर्दनपूर्वकं निर्मितमाहारादिकम् । आधाकर्मिकस्य निषिद्धत्वात् यद्यपि शुद्ध आहारः तत्राऽऽधाकर्मादिदोषयुक्ताहारस्य सिक्यमपि-कृणमपि यदि मिलति तदाऽसौ पूतिकर्माहार इत्युच्यते, तदाहारकरणे प्रायश्चित्तम् । तद् द्विप्रकारकं भवति, तदेव दर्शयति भाष्यकार:-'पूइकम्म' इयादिना ।
विदितशास्त्रहृदयैः पूर्वाचार्यैः पूतिकर्म विधा-द्विप्रकारकं कथितम् , तद्यथा-द्रव्ये भावे च, तत्र द्रव्ये सुन्दरदृष्टान्तो निदर्शनम् । तथाहि
अस्ति कश्चिद्गाथापतिः, तेन गृहकार्यकरणाय सुन्दरो नामकः सेवकः स्वगृहे स्थापितः। एकदा कदाचित्काचित् पुण्यतिथिः प्राप्ता । तदवसरे गाथापतिना प्राङ्गणोपलेपनाय सुन्दरः सेवको नियोजितः । स च सुन्दरो गोमयमानीतवान् परन्तु गोमयेन साकं पुरीषमपि-आनीय प्राङ्गणस्योपलेपनादिकं कृतवान् । यदा तु गाथापतिः समागतः तदा दुरभिगन्धयुक्तद्रव्येण लिप्त प्राङ्गणमिति मत्वा भृत्यं भसितवान् । तथा च यथा दृष्टान्तेऽपवित्रदुर्गन्धिमनुष्यपुरीषेण संसृष्टं गोमयमपि दुर्गन्धकारणम् । एवमेव-दार्टान्तिकेऽशुद्धाहारसंसृष्टः शुद्धाहारोऽपि दोषाय एवेति ।