________________
निशिथसूत्रे ३० नाऽसमानजातीयकं चोलपट्टादिकं वस्त्रं सार्धमासादधिकं सार्धकमासादधिककालपर्यन्तं धरतिधारयति, यद्वा-धरन्तमनुमोदते स श्रमणः तीर्थकृतामाज्ञाभङ्गादिदोपभागी भवतीति । तथाअनवस्थादोपम्-आत्मसंयमविराधनादोपं च प्राप्नोति, अतः सलक्षणादिवस्त्रस्य मार्गणं कर्त्तव्यम् ।
तत्राऽपलक्षणोपधेर्धारणे-यस्मात्- ज्ञानदर्शनचारित्राणां विनाशो भवति, तस्मात्-अलक्षणयुतं वस्त्रं न धारयितव्यम् , किन्तु-सविधिवस्त्रस्य मार्गणा कर्त्तव्या । तत्र यथाकृतवस्त्रग्रहणे मासचतुष्टयं यावत्-अन्वेपणं कर्त्तव्यम् १, अन्यपरिकर्मितग्रहणे मासद्वयं यावत् मार्गणं कर्त्तव्यम्-२, ततः परं सार्धमासपर्यन्तं सपरिकर्मितं वस्त्रं मार्गयेत् ३, एवंप्रकारेण कृतेऽपि मार्गणे सलक्षणादिकमन्यदोपरहितं वस्त्रं यदि न मिलेत् , तदा तावत्पर्यन्तं मार्गणं कर्त्तव्यम् यावत्पर्यन्तमन्यत्सलक्षणं सर्वदोपहितं वस्त्रं न मिलेत् ॥ सू० ५८॥
सूत्रम्--जे भिक्खू गिहधूमं अण्णउत्थिएण वा गारथिएण वा परिसाडावेइ परिसाडावेतं वा साइज्जइ ॥ सू० ५९ ॥
छाया-यो भिक्षुः गृहधूमं अन्ययूथिकेन वा, गृहस्थेन वा परिशाटयति परि, शाटयन्तं वा स्वदते ॥ सू० ५९।।
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'गिहधूम' गृहधूमम् गृहं वसतिर्यत्र साधवस्तिष्ठन्ति, तस्मिन् गृहे वसतौ धूमं रोगाद्युपशामकगुग्गुलादिज्वालनाज्जायमानम् 'अण्णउत्थिएण वा अन्ययूथिकेन वा परतीर्थिकेन वा, 'गारथिएण वा' गृहस्थेन वा-येन केनचित् वा परिसाडावेइ' परिशाटयति-गृहादिकं पिधाय तदन्तधूमं निरुध्य प्रसारयति, सर्वतो विस्तारयति 'परिसाडावेतं वा साइज्जई' परिशाटयन्तं-इतस्ततो धूपयन्तं वा स्वदतेऽनुमोदते स प्राग्वत् प्रायश्चित्तभाग्भवति ॥ सू० ५९॥
सूत्रम्-जे भिक्खू पूइकम्मं भुंजइ भुंजंतं वा साइज्जइ, तं सेवमाणे आवज्जइ मासियं परिहारहाणं अणुग्घाइयं ।। मू० ६०॥
___॥ णिसीहज्झयणे पढमो उद्देसो संमत्तो ॥१॥ छाया-यो भिक्षुः पूतिकर्म भुङ्क्ते भुञ्जन्तं वा स्वदते, तं सेवमान आपद्यते मासिकं परिहारस्थानमनुद्घातिकम् ॥सू० ६० ।।
॥ निशीथाध्ययने प्रथम उद्देशः समाप्तः ॥१॥