________________
चूर्णिभाष्यावचूरिः उ०२० सू०४-६ मासिकादिपरिहारस्थानप्रतिसेवनप्रायश्चित्तविधि ४३३
सूत्रम्--जे भिक्खू चाउम्मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स चाउम्मासियं, पलिउंचिय आलोएमाणस्स पंचमासियं ॥ सू० ४॥
छाया-यो भिक्षुश्चातुर्मासिकं परिहारस्थानं प्रतिव्य आलोचयेत्-अपरिकुच्यालोचयतः चातुर्मासिकं परिकुच्य आलोचयतः पाञ्चमासिकम् ॥ सू० ४ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चाउम्मासियं' चातुर्मासिकम्-चातुर्मासेन चतुर्भिः मासैः निर्वर्तनयोग्यम् 'परिहारहाणं' परिहारस्थानम्पापस्थानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रतिसेवनां कृत्वा 'आलोएज्जा' आलोचयेत्-आलोचनाकर्तुमभिलपेत् 'अपलिउंचिया अपरिकुच्य-मायामकृत्वा 'आलोएमाणस्स' आलोचयतः-आलोचनां कुर्वतः श्रमणादेः 'चाउम्मासियं' चातुर्मासिकम्-चतुर्भिर्मासैः संपादनयोग्यम् लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारेण दद्यात् 'पलिउंचिय आलोएमाणस्स पंचमासियं' परिकुच्यालोचयतः पाञ्चमासिकम् , तत्र परिकुच्य मायापूर्वकमालोचनां कुर्वतः पाञ्चमासिकम्-मासपञ्चकेन निवर्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं गुरुर्दद्यादिति । अयं भावः-यत्रैवापराधे मायारहितस्य शिष्यस्य श्रमणस्यान्यस्य वा चातुर्मासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायचित्तं भवति तत्रैवापराधे मायासहितस्य पाञ्चमासिकं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात्, मासाधिक्यस्य मायाप्रयोज्यत्वात् । अत्र मालाकारयोर्दृष्टान्तः-एकस्मिन्नगरे द्वौ मालाकारौ निवसतः । तत्रैकेन वसन्तसमये बहूनि पुप्पाणि आनीय विधिना स्थापितानि, तानि दृष्ट्वा क्रयका उपतिष्ठन्ति । उपस्थितेषु तेपु क्रयकेपुमाला निर्मिता । तैत्विा मालाक्रेतृभिः तस्मै बहु मूल्यं दत्तं पुष्कलो लाभो जातः । अपरेण न पुष्पाणि आनीतानि, नैव च माला निर्मिता अतस्तत्समीपे न कोऽपि क्रेता आगतः, न तेन कोऽपि लाभो लब्धः । एवं यो मूलगुणोत्तरगुणापराधान् न प्रकटयति स शुद्धिं निर्वाणलामं च न लभते इति ।। सू० ४ ॥
सूत्रम्-जे भिक्खू पंचमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स पंचगासियं पलिउंचिय आलोएमाणस्स छम्मासियं ॥ सू० ५॥
छाया-यो भिक्षुः पाञ्चमासिक परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्यालोचयतः पाञ्चमासिकं परिकुच्य आलोचयतः पाण्मासिकम् ॥ सू० ५ ॥