________________
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः निरवद्यभिक्षणशीलः अष्टविधकर्मक्षपको वा 'पंचमासिय' पाञ्चमासिकम् - पञ्चभिर्मासैर्निवर्त्तनयोग्यम् ' परिहारद्वाणं' परिहारस्थानम् - पापस्थानम् 'पडिसेवित्ता' प्रतिसेव्य तत्प्रतिसेवनां कृत्वा 'आलोएज्जा' खालोचयेत् आलोचनां कुर्यात् तत्र 'अपलिउंचिय' अपरिकुध्य- मायामकृत्वा 'आलोएमाणस्स' आलोचयतः 'पंचमा सियं' पाञ्च मासिक - लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुर्दधात् । 'पलिउंचिय आलोएमाणस्स' परिकुच्य - मायां कृत्वा आलोचनां कुर्वतः श्रमणादेः 'छम्मासिय' पाण्मासिकम् - लघुकं गुरुकं वा प्रतिसेवनाऽनुसारि प्रायश्चित्तं गुरुभिर्दातत्र्यमिति । पाण्मासिकप्रायश्चित्तविषये परिकुञ्चके मेघदृष्टान्तः - यथा शरत्कालिको मेघो गर्जनं कृत्वा नो वर्पति, एवं हे शिष्य ! वमपि आलोचयामीत्येवं प्रकारण प्रतिज्ञां कृत्वा आलोचयितुं नाख्धवानसि तत्र यदि मायां करिष्यसि तदा प्रतिज्ञाभ्रष्टो भविष्यसि अतः सम्यगालोचय इति । तत्र द्वैमासिकादिपरिहारस्थानेषु मायापूर्वकालोचके यथाक्रममिमे दृष्टान्ताः संभवन्ति तद्यथा द्वैमासिकं परिहारस्थानं प्राप्तस्य प्रतिकुञ्चकस्य दृष्टान्तः तापसः १, त्रैमासिकं परिहारस्थानं प्राप्तस्य योधो दृष्टान्तः २, चातुर्मासिकं परिहारस्थानं प्राप्तस्य मालाकारो दृष्टान्तः ४, पाचमासिकं परिहारस्थानं प्राप्तस्य मेघो दृष्टान्तः ५ । तत्र प्रतिकुच्चनायां कृतायाम् 'सम्यगालोचय मा प्रतिकुचनां कुरु' एवम्पलब्धो यदि वदेत् भगवन् ! नो कुप्यतु सम्यगालोचयामि । ततः स श्रुतव्यवहारी गुरु वारत्रयमालोचनां शृणुयात् । तत्र त्रिभिर्वारैर्यदि सदृशमालोचयति तदा ज्ञातव्यं यदयं सम्यक् प्रतिक्रान्त इति तदनन्तरं यद्देयं प्रायश्चित्तं तद्दातव्यमिति । अथ यदि विमदृशमालोचयति तदा यथायोग्यमधिकाधिकं प्रायश्चित्तं दद्यात् यावत् पाण्मासिकमिति । सू० ५ ॥
४३४
सूत्रम् — तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा || सू० ६॥
छाया - ततः परं परिकुञ्चिते वा अपरिकुञ्चिते वा ते पत्र पण्मासाः ॥ सू० ६||
चूर्णी - पाञ्चमासिकपरिहारस्थानसूत्राणि कथयित्वा पाण्मासिकपरिहारस्थानविषये प्राह'तेण परं' इत्यादि । ' तेण परं' ततः परम् ततोऽनन्तरम् पाश्र्वमासिकात् परिहारस्थानात् परम् - आलोचनाकाले 'पलिउंचिए वा' परिकुश्चिते वा - मायासहिते वा 'अपिलउंचिए वा' अपरिकुञ्चिते वा मायारहिते वा मायापूर्वकममायापूर्वकं वा आलोचिते इत्यर्थः ' ते चेत्र छम्मासा' ते एव - पण्मासाः व एव प्रतिसेवनानिष्पन्ना एव पण्मासाः पडेव मासा नाधिकं प्रतिकुश्वनानिमित्तमारोपणं वर्त्तते तदधिकप्रायश्चित्तस्य अभावादिति ॥ सू० ६ ॥