________________
४३२
निशीथसूत्र सूत्रम्--जे भिक्खू तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स तेमासियं, पलिांचिय, आलो एमाणस्स चाउम्मासियं ॥ सू० ३ ॥
छाया- यो भिक्षुः त्रैमासिक परिहारस्थान प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतः त्रैमासिकम् परिकुच्य आलोचयतश्चातुर्मासिकम् ।। सू० ३ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'तेमासियं त्रैमासिकम्-मासत्रयेण निर्वर्तनयोग्यम् मासत्रयसंपायमित्यर्थः 'परिहारहाण परिहारस्थानम्-पापं पापजनकं वा सावधकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य-प्रकर्षण सेवनां कृत्वा 'आलोएज्जा' आलोचयेत्-स्वकृतसावधकर्मणो गुरुसमीपे आलोचनां दद्यात् , तत्र च 'अपलिउंचिय आलोएमाणस्स' अपरिकुच्य-आलोचयतः-मायामकृत्वा शुद्वभावेन गुरुसमीपे स्वकीयं पापं निवेदयित्वा पापस्थानमालोचयतः 'तेमासियं' त्रैमासिकं प्रायश्चित्तं लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दधादिति । 'पलिउंचिय' परिकुच्य-मायापूर्वकम् 'आलोएमाणस्स' आलोचयतः श्रमणादेः 'चाउम्मासिय' चातुर्मासिकम्-मासचतुष्टयेन निर्वर्तनयोग्यं लघुकं गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं गुरुर्दद्यात् , इति । अयं भावः-मासिकपापस्थानस्य प्रतिसेवनां कृत्वा यदि कश्चित् श्रमणः श्रमणी वा स्वकीयपापनिवारणाय गुरुसमीपे शुद्धमनोभावेन प्रायश्चित्तमिच्छेत् तदा गुरुस्तादृशशिष्याय त्रैमासिकं लघुकं गुरुकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दद्यात् । अथ यदि कदाचित् मायापूर्वकमालोचयितुमिच्छेत्तदा गुरुः प्रतिसेवनानुसारि चातुर्भासिक लघुकं गुरुकं वा प्रायश्चित्तं दद्यात्-मायादण्डरूपेण मासाधिक्यं वदेत् । अत्रायं दृष्टान्तः-अस्तिकस्यचिद्राज्ञोऽतीव वल्लभः एकः सेनापतिः, स च सड्ग्रामे विविधशस्त्रेणाहतः तच्छरीरे अनेकानि शल्यानि प्रविष्टानि तेन दुर्बलः स वैद्यमाहूतवान् , आहूय च स्वस्यास्वास्थ्यकारणं प्रोवाच, ततो वैद्यो निर्दिष्टस्थानात् शल्योद्धरणं कृतवान् परन्तु स स्वस्थो नाभूतु प्रतिदिनं दुर्वल एव भवति, शल्यनिष्कासनसमये शल्यपीडया पीडितः एक शल्यस्थानं न दर्शितवान् तेन स्वस्थो नाभूत शल्यस्य शरीरे विद्यमानत्वात् , तच्छल्यं शरीरान्तर्विद्यमानं तस्य स्वस्थतायां प्रतिबन्धकम् अत एव स दुर्बल एव भवति, पुनरपि वैद्यमाहूतवान् , आहुय च अवशिष्टशल्यस्थानं दर्शितवान, ततो वैद्यः शल्यं निष्कासितवान् तेन योधः स्वस्थो जातः । एवं वैद्यस्थानीय आचार्यः योधस्थानीयश्रमणादेः पापरूपं शल्यं प्रायश्चित्तद्वारा निष्कास्य ज्ञानदर्शनचारित्रलक्षण बलं संपादयति तस्मात् शुद्धभावेनाऽऽलोचनां कुर्यात् न तु कपटपूर्वकमालोचयेत् , यदि कपटभावेनालोचयेत् तदा कपटापराधनिमित्तक मासाधिक्यं प्रायश्चित्तं गुरुदैद्यादिति ॥ सू० ३ ॥