________________
णिभाष्यावत्रिः उ०२० सू०१-३ मासिकादिपापस्थानप्रतिसेविनां प्रायश्चित्तप्रकारः ४३१
भक्षणेन तस्योदरे विकृति ता अजीर्णरोगश्च प्रादुरभूत् , ततः स तापसस्तं रोगमपाकर्तु कगपि वैद्य पृष्टवान्-हे वैद्य ! मदुदरे रोगो जातः, वैयः प्राह-त्वया किं भक्षितम् ? तापसेन कथितम्-फलादिभक्षणं कृतम्, ततो वैद्यः तदनुकूलमौषधं दत्तवान् परन्तु तादृशौषधेन तस्य रोगो न शान्तः । पुनरपि तापसो वैद्यान्तिकं गत्वा प्रोवाच-मदुदराद् रोगो न गतः, ततो वैधः प्राह-भो तापस ! सत्यं वद किं त्वया भक्षितम् , ततः स तापसः कपटरहितः सन् सत्यमेव कथितवान् यन्मया मत्स्यभक्षणं कृतमिति, ततो वैयो वमनविरेचनतः रोगस्य निवारणं कृतवान्, तापसः स्वस्थः सबल चापि अभूत् । एवमेव पापस्थानं प्रतिसेव्य यः श्रमण. श्रमणी वा सकपटमालोचयति तस्य शुद्धिर्न भवति क्रयासिद्धिरपि न भवति । अथ यदि मायारहितः मालोचयति तदा स शुध्यति; यथा वैद्यस्त तापसं शुद्धं कृतवान् तथैव वैद्यरूप आचार्यः तापसतुल्यं श्रमणं श्रमणी वा प्रायश्चित्तलक्षणवमनविरेचनादिना शोधयति । अथ च शुद्धः श्रमणः श्रमणी वा जन्मजरामरणरोगरहितोऽनन्तसुखभागी भवतीति ॥१॥
सूत्रम्-जे भिक्खू दामासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आल एमाणस्स दोमासियं, पलिउंचिय आलोए माणस्स तेमासियं ।। सू० २॥
छाया-यो भिक्षुः द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अपरिकुच्य आलोचयतो द्वैमासिकं, परिकुच्य आलोचयतलैमासिकम् ॥ सू. २॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'दोमासियं' द्वैमासिकम् द्वाभ्यां मासाभ्यां निष्पन्नं मासद्वयेन निर्वर्तनयोग्यम् 'परिहारहाणं' परिहारस्थानं पापं पापजनकसावधकर्मानुष्ठानम् 'पडिसेवित्ता' प्रतिसेव्य- कुत्सितकर्मणः प्रतिसेवनां कृत्वेत्यर्थः 'आलोएज्जा' आलोचयेत् - आलोचनां कुर्यात् तत्र 'अपलिउंचिय आलोएमाणस्स' अपरिकुच्य आलोचयतः, तत्रापरिकुच्य-मायामन्तरेणैव शुद्धान्तःकरणेन आलोचयत आलोचनां कुर्वतः गुरुसमीपे प्रायश्चित्तस्थानं प्रकाशयतः श्रमणादेः 'दोमासियं' द्वैमासिकं-लघुकं गुरुक वा प्रायश्चित्तं प्रतिसेवनानुसारि गुरुर्दद्यात् , 'पलिउंचिय आलोएमाणस्स' परिकुष्य आलोचयतः, तत्र परिकुष्य सकपटमालोचयतः आलोचनां प्रायश्चित्तं कुर्वतः श्रमणादेः 'तेमासिय' त्रैमासिक प्रायश्चित्तं दद्यात् गुरुः, प्रतिकुञ्चनानिष्पन्नस्य गुरुमासस्याधिकस्य प्रक्षेपात् । अयं भावः-यदि कोऽपि श्रमणः श्रमणी वा द्वैमासिकं प्रायश्चित्तस्थानं प्रतिसेव्य शुद्धभावेन गुरुसमीपे प्रायश्चित्तमभिलषति तदा गुरुः तादृशशिष्याय द्वैमासिक लघुकं गुरुकं वा प्रायश्चित्तं दद्यात् , अथ यदि सकपटमालोचयति तदा त्रमासिकं लघुकं गुरुकं वा प्रायश्चित्तं दद्यात्-मायाप्रयुक्तमासाधिकस्याऽऽवश्यकत्वात् । उदाहरणादिकं पूर्वसूत्रवदेव बोद्धव्यमिति ॥ सू० २ ॥