________________
निशीथसूत्रे
४२०
स प्रायश्चित्तभागी भवति । तानेव महामहान् प्रदर्शयति- 'तं जहा ' इत्यादि । 'तं जहा ' तद्यथा'ईंदमहे' इन्द्रनामंकदेवस्य महोत्सवे चैत्री पूर्णिमायां जायमाने 'खंदमहे' स्कन्दम हे स्कन्दः कार्ति - केयः, तस्य महोत्सवे आषाढी पूर्णिमायां जायमाने 'जक्खमहे' यक्षमहे - यक्षमहोत्सवे - आश्विनीपूर्णिमायां जायमाने 'भूयमहे' भूतमहे - व्यन्तरदेवमधिकृत्य जायमाने महोत्सवे - कार्तिकी पूर्णिमायां जायमाने, उपर्युक्तमहोत्सवचतुष्टयसमये यावत् महोत्सवस्यान्तिमः समयो भवति तावदित्यर्थः तत्स्थाने च यः श्रमणः श्रमणी वा स्वाध्यायं समाचरति तथा समाचरन्तमनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ११॥
सूत्रम् - जे भिक्खू चउसु महापविएस सज्झायं करेइ करेंत वा साइज्जइ । तं जहा - सुगिम्हियपाडिवए, आसाढीपाडवए, आसोईपाडिव, कत्तियपाडिव || सू० १२ ॥
छाया -यो भिक्षुश्चतसृपु महामतिपत्सु स्वाध्यायं करोति कुर्वन्तं वा स्वदते तद्यथा - सुग्रीष्मिक प्रतिपदि, आषाढीप्रतिपदि, आश्विनीप्रतिपद, कार्त्तिकी प्रतिपदि ॥सु० १२ 'चूर्णी - 'जे भिक्खू' इत्यादि । 'जेभिक्खू' यः कश्विद्भिक्षुः श्रमणः श्रमणी वा 'चउसु महापडिवएस चतसृषु महाप्रतिपत्सु पूर्वीक चतुर्महोत्वानामनन्तरं जायमानासु बहुलप्रतिपत्सु 'सज्झायं करेs' स्वाध्याय - सूत्रार्थतदुभयस्य अध्ययनं करोति तथा 'करेंतं वा साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायवित्तभागी भवति, तत्र काः ताः महाप्रतिपदः यासु स्वाध्यायस्य प्रतिषेधः क्रियते ? तत्राह - 'तं जहा' इत्यादि । 'तं जहा ' तद्यथा - 'सुगिम्हिय पाडिवए' सुग्रीष्मकप्रतिपदि चैत्रशुक्लपूर्णिमाया अनन्तरं जायमानायां वैशाख कृष्णप्रतिपदि, 'आसाढीपाडवए' आषाढीप्रतिपदि आषाढसम्बन्धिप्रतिपदि आपाढशुक्लपूर्णिमाया अनन्तरं जायमानायां श्रावणकृष्णप्रतिपदि एवम् 'आसोईपाडिवए' आश्विनीप्रतिपदि - आश्विनपूर्णिमाया अनन्तरं जायमानायां कार्त्तिक कृष्णप्रतिपदि 'कत्तियपाडिवर ' कात्तिको प्रतिपदि कार्त्तिकपूर्णिमाया अनन्तरं जायमानायां मार्गशीर्पकृष्णप्रतिपदि । एतासु पूर्वीकासु चतसृषु प्रतिपत्सु देवा गमनागमनं कुर्वन्ति शास्त्र- ' 'स्य देवानां च भाषा एकैवेति यदि एतासु तिथिषु अध्ययनं करिष्यन्ति तदा यदि तत्राशुद्धमुच्चारणं स्यात् तदा रुष्टास्ते देवा विघ्नं करिष्यन्तीति कृत्वा एत्तासु तिथिषु स्वाध्यायस्य निषेधः कृतो भवति ||सू० १२॥
सूत्रम् -- जे भिक्खु पोरिसिं सज्झायं उवाइणावेइ उवाइणावतं वा साइज्जइ ॥ सू० १३ ॥
छाया - यो भिक्षुः पौरुपीं स्वाध्यायीमतिक्रामति अतिक्रामन्तं वा स्वदते ॥ सू० १३ ॥