________________
चूर्णि भाष्यावचूरिः उ० १९ सू० ९-१२ कालिकयुताद्यतिपृच्छा महामहादिस्वाध्यायनि० ४१९
चूर्णी - 'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'कालिय सुयस्स' कालिकश्रुतस्य यत् श्रुतं काले नियतकाले एवाधीयते तत् कालिकश्रुतम्, यस्य श्रुतस्याध्ययनम् दिवसस्य रात्रेर्वा प्रत्येकं प्रथमान्तिमप्रहरे अस्वाध्यायकालं वर्जयित्वाऽध्यययनं क्रियते तत्कालिकश्रुतम् आचाराङ्गादिकम् तस्य, कालिकश्रुतस्य 'परं तिन्हं पुच्छाणं' परं तिसृणां पृच्छानाम् पृच्छात्रयादधिकम्, तत्र एकस्यां पृच्छायां सूत्रत्रयं भवति ततः पृच्छात्रये नव सूत्राणि भवन्ति ततश्च कालिकश्रुतस्य अकाले यत्र काले सूत्र नाघीयते सोऽकालः, तस्मिन् नवसूत्रादधिकम् 'पुच्छर' पृच्छति - पृच्छां करोति 'पुच्छंतं वा साइज्जइ' पृच्छन्तं वा श्रमणान्तरं स्वदते-- अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ९ ॥
सूत्रम् -- जे भिक्खू दिट्टिवायरस परं सत्तण्हं पुच्छाणं पुच्छइ पुच्छंतं वा साइज्जइ ॥ सू० १० ॥
छाया -यो भिक्षुर्हष्टिवादस्य परं सप्तानां पृच्छानां पृच्छति पृच्छन्तं वा स्वदते ॥ सू० १० ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'दिट्ठिवायस्स' दृष्टिवादस्य द्वादशमङ्गं दृष्टिवादस्तस्य ' परं सत्तण्हं पुच्छाणं पुच्छर' परम्अधिकं सप्तानां पृच्छानाम्– सप्तपृच्छातोऽधिकम् तत्र - कालिकश्रुते एकस्यां पृच्छायां सूत्रत्रयं भवति, पृच्छात्रये च नव सूत्राणि भवन्ति, दृष्टिवादेऽपि एकस्यां पृच्छायाम् सूत्रत्रयं भवति सप्त पृच्छायां एकविंशतिः सूत्राणि भवन्ति ततश्च यथोक्तपृच्छातोऽधिकं यः श्रमणः श्रमणी वा आचार्यम् 'पुच्छर' पृच्छति तथा 'पुच्छंतं वा साइज्ज' पृच्छन्तं वा श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १० ॥
सूत्रम् -- जे भिक्खूचउसु महामहेसु सज्झायं करेइ करेंतं वा साइज्जइ । तं जहा - इंदमहे, खंदमहे, जक्खमहे, भूयमहे ॥ सू० ११ ॥
छाया - यो भिक्षुचतुर्षु महामहेषु स्वाध्यायं करोति कुर्वन्तं वा स्वदते । तद्यथाइन्द्रमहे, स्कन्दमहे, यक्षमहे, भूतमहे । सू० ११ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चउसुमहामहेसु' चतुर्षु चतु संख्यकेषु वक्ष्यमाणेषु महामहेषु - महामहोत्सवेषु, तत्र रन्धन - पचन-पाचनखाटन-पान-नृत्य-गीत- प्रमोदादिरूपेषु ये महता समारोहेण महोत्सवाः ते महामहाः, तेषु महोत्सवेषु तादृशमहोत्सवसमये तत्स्थाने यः श्रमणः श्रमणी वा 'सज्झायं' स्वाध्यायम् सूत्रार्थतदुमयपठनरूपम् 'करेइ' करोति तथा 'करेंतं वा 'साइज्जइ' कुर्वन्तं वा श्रमणान्तरं स्वदते - अनुमोदते