________________
निशीथसूत्रे
४१६
तस्य तादृशस्य ग्लानस्य अर्थाय प्रयोजनाय गाढागाढकारणमाश्रित्येत्यर्थः यदि विकृतदत्ते हणावश्यकता लक्ष्येत तदा एकद्वित्रिदत्तीर्यहीतुं कल्पते नाधिकमित्याह - ' परं ति०हूं' परं तिसृणाम् 'वियडदत्तीणं' विकृतदत्तीनाम् तत्र विकृतं - द्राक्षादिविकृत्या संपाद्यमानं निकृतिको रकत्वाद विकृतं तस्य विकृतस्य तिसृभ्यो दत्तिभ्योऽधिकम्, तत्र दत्तिरिति अविच्छिन्नं पतन्तो द्रवद्रव्यधारागृहाते, तथा च विकृतानामचितबहुमूल्यप्रपाणकद्राक्षासवकुमार्यासवादीनाम् अन्येषां वा तथाविध द्रवपदार्थानां दत्तित्रयादधिकम् 'पडिग्गा हे' प्रतिगृह्णाति ग्लानप्रयोजनमासाद्य दत्तित्रयादधिकं विकृतं स्वीकरोति, तथा - 'पडिग्गाहतं वा साइज्जइ' प्रतिगृहन्तं वा ग्लानप्रयोजनेनापि दत्तिश्रयादधिकं गृह्णन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।
नात्र विकृतशब्दस्य मद्याद्यर्थः किन्तु विकृतस्य मद्याद्यर्थो निशीथचूण्या लम्यते, तद्ग्रहणविधिश्च तथाहि तत्र भाष्ये यदुक्तम्- "वितियपदं गेलण्णे, विज्जुवपसे तहेव सिक्खाए । एतेहि कारणेहिं, जयणाए कप्पती चेत्तुं || ६०३ ४ | (१० २२० सन्मतिज्ञानपीठ मागरामुद्रित) तच्चूर्णिर्यथा: - ' वेज्जोए सेणगिलाणट्टा घेप्पेज्ज कस्सति कोति चाही तेणेव उपसमति तिण दोसो | गिलाणहा वा वेज्जो आणितो तस्सहा वा धिप्पेज्जा । पकप्पं वा सिक्खतो गहणं करेज्जा ||६०३४ ||
छाया - द्वितीयपदम्--ग्लाने वैद्योपदेशे तथैव शिक्षायाम् । एतैः कारणैः वतनया कल्पते ग्रहीतुम् ||६०३४॥
वैद्योपदेशेन ग्लानार्थ गृह्णीयात् कस्यापि कोऽपि व्याधिस्तेनैव उपशाम्पति इति न दोषः । ग्लानार्थ वा वैध आनीतः तस्यार्थ वा गृह्णीयात् प्रकल्पं वा शिक्षन् ग्रहणं कुर्यात् ||६०३४॥ इति तन्मोहविजृम्भितम् | साधूनां तस्य सर्वथा निषिद्धत्वात् ।
"
अत्राह भाष्यकारः---
भाष्यम् - जो य भिक्खू गिलाणट्ठा, तिन्हं दत्तीण जं परं । गिण्हेज्जा गाहएज्जा वा आणाभंगाइ पावइ ॥ १ ॥
छाया - यश्च भिक्षुग्लनार्थं तिसृणां दत्तीनां यत् परम् । गृहीयाद् ग्राहयेद वा आशाभङ्गादि प्राप्नोति ॥
अचचूरिः - यश्च कश्चिद्भिक्षुः श्रमणः श्रमणी वा ग्लानार्थं कुक्षिशूलादिरोगवतः श्रमणस्य प्रयोजनाय यदि ग्रहणीयमापयेत तदा विसृणां विकृतदत्तीनाम् अचित्तद्रवसम्बन्धिनीनां परं त्रयादधिकं गृह्णीयात् स्वीकुर्यात् ग्राहयेद् वाऽन्यद्वारा स श्रमणः श्रमणी वा आज्ञा भङ्गादिकं मिध्यात्वं संयम विराधनामात्मविराधनां च प्राप्नोति तथा दत्तित्रयादधिकग्रहणे लोकानां तदुपरि अविश्वासः
1