________________
पर्णिभाष्यावचूरिःउ• १९ सू० ५-८ विकृतग्रहणगालन-चतुःसन्ध्यास्वाध्यायनिषेधः ४१७ स्यात् यथाऽयं प्रबजितो भूत्वाऽपि शास्त्राज्ञारहितदत्तित्रयादधिकं स्वीकरोतीति, तथा साधोलाभदशाऽपि प्रकटा भवति, तथा-ग्लानस्यातिमात्राग्रहणेनाऽसह्यतया शरीरऽन्यो रोगः समुत्पद्यते तेना
ज्मविराधना, शरीरे विषयविकारोऽपि समुत्पद्यते तेन संयमविराधनाऽवश्यम्भाविनी, लोके च तद्विषये शङ्का जायते यदयमेतादृशवस्तुजातमधिकं विना कारणं शरीरपुष्ट्यर्थ भुते तेन ज्ञायतेऽयं कामी कामविषयमपि सेवते इति प्रतिभाति, तथाऽयं दरिद्रकुलोत्पन्नोऽस्ति येनाऽयं पूर्व स्वगृहे नेतादृशं वस्तु दृष्टवान् अतोऽधिकाहारलोलपोऽस्तीत्येवं लोके निन्दा प्रवचनहोलना चापि भवति, इत्यादिकारणात् ग्लानार्थमपि दत्तित्रयादधिकं किमपि एतादृशद्रववस्तु न स्वयं गृह्णीयात्, वा परान् ग्राहयेत् न, वा गृहन्तं श्रमणान्तरमनुमोदयेदिति ।। सू० ५ ॥
सूत्रम्-जे भिक्खू वियडं गहाय गामाणुगामं दूइज्जइ दूइज्जतं वा साइज्जइ ॥ सू०६॥
छाया-यो भिक्षुर्विकृतं गृहीत्वा प्रामानुग्राम द्रवति द्रवन्तं वा स्वदते ॥० ६॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वियर्ड गहाय' विकृतम्-अचित्तमपि प्रपाणकादिकम् एकस्मिन् ग्रामे गृहीत्वा अग्रे पानार्थं 'गामाणुगामं
दुइज्जई' ग्रामानुग्रामं द्रवति-एकस्माद्ग्रामात् क्रोशद्वयादूर्ध्व प्रामान्तरं गच्छति तथा 'दुइज्ज • माणं वा साइज्जई' द्रवन्तं-गच्छन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।
अत्राह-माष्यकार:भाष्यम्-कारणाकारणेहिं जो, गहाय वियर्ड जइ ।
गामाणुगाम दुइज्जा, आणाभंगाइ पावइ ॥१॥ छाया-कारणाकारणाभ्यां यः गृहीत्वा विकृतं यतिः ।।
ग्रामानुग्राम द्रवेत् आशाभङ्गादि प्राप्नोति ॥१॥ अवचूरिः-कारणाकारणाभ्यां-कारणतोऽकारणतो वा यो यतिः-साधुः अचित्तं विकृतं दवनातं प्रपाणकादिकं गृहीत्वा यत्र ऋतुबद्धं वसति वर्षावासं वा वसति तस्मिन् ग्रामे एवमसति .लामे अचित्तं प्रपाणकादिकं गृहीत्वा यदि यः श्रमणः श्रमणी वा प्रामानुग्रामं द्रवेत्-क्रोशद्वयादूर्ध्व गच्छेत्-स श्रमणः श्रमणी वा आज्ञाभङ्गादिदोषान् प्राप्नोति ॥ सू० ६ ॥
सूत्रम्-जे भिक्खू वियडंगालेइ गालावेइ गालियं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं.वा साइज्जइ ।। सू०७॥
छाया-यो भिक्षुर्विकृतं गलति गालयति गालितमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृहन्तं वा स्वदते ॥ सू० ७ ॥