________________
निशोथस्त्रे मागत्य श्रमणाय समर्पयति तादृशं दीयमानं वस्तु यः श्रमणः श्रमणी वा 'पडिग्गाहेड' प्रतिगृह्णातिस्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृहन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १॥
सूत्रम्-जे भिक्खू वियडं पामिच्चेइ पामिच्चावेइ पामिच्चं आहट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा । सू० २॥
छाया- यो भिक्षु. विकृतं प्रामित्यति प्रामित्ययनि प्रामित्यमाहत्य दीयमानं प्रतिगृह्याति प्रतिगृहन्तं वा स्वदते ॥ सू० २ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षु. श्रमणः श्रमणी वा 'वियर्ड' विकृत-बहुमूल्यमचित्तं श्रमणानां श्रमणानां वा कल्पनीयं प्रपाणकादिकं 'पामिच्चेइ':प्रामित्यति प्रतिप्रदानप्रतिज्ञया ग्रहणं करोति उद्धाररूपेण गृहातीत्यर्थः 'पामिच्चावेई' प्रामित्ययति-उद्धाररूपेण परद्वारा ग्रहणं कारयति तथा 'पामिच्चं आहटु दिज्जमाणं पडिग्गाहेई' प्रामित्यमाहृत्य दीयमानं प्रतिगृह्णाति तथा 'पडिग्गात वा साइज्जई' प्रतिगृहन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २ ॥
सूत्रम्--जे भिक्खू वियर्ड परियट्टेइ परियड्रावेइ परियट्टियं आहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ स०३॥
छाया-यो भिक्षुः विकृतं परिवर्त्तते परिवर्तयति परिवर्तितमाहत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ।। सू० ३॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियर्ड' विकृतमचित्तं व्यपगतजीवम् द्राक्षासवादिप्रपाणकं बहुमूल्यम् 'परियटेइ' परिवर्तते, तत्र परिवर्तनं पसवर्तनम् स्वकीयाशनवत्रादेरन्यस्मै समर्पणम् अन्यस्य प्रपाणकादिकस्य स्वयं ग्रहणम्, स्वकीयमशनवस्त्रादिकमन्यस्मै ददाति अन्यस्य प्रपाणकादि द्रवद्रव्यं स्वयं गृहाति एवं परिवर्तनं करोति 'परियटावेई' परिवर्तयति परद्वारा परावर्तनं कारयति तथा परियट्टियं आहटुदिज्जमाणं पडिग्गाहेइ' परिवर्तितमाहृत्य दीयमानं प्रतिगृह्णाति, अन्यः कोऽपि समीचीनाशनक्लादीनां परावर्तनं कृत्वा तादृशं प्रपाणकादिवस्तुनातं गृहीत्वा श्रमणाय ददाति तादृशं दीयमानं तत् प्रपाणकादिकं यः श्रमणः श्रमणी वा प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा तथा 'पडिम्गाहें वा साइज्जई' प्रतिगृह्णन्तं वा परावर्तिताचित्तबहुमूल्यद्रवपदार्थस्य ग्रहणं कुर्वन्तं श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागो भवति ॥ सु० ३ ।।