________________
॥ एकोनविंशतितमोद्देशकः ॥ अष्टादशोदेशकं व्याख्याय भवसरप्राप्त एकोनविंशतितमोदेशको व्याख्यायते । तत्र एकोनविशतितमोद्देशकादिसूत्रस्य अष्टादशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ! इत्यत्राह भाष्यकार:भाष्यम् -अट्ठारसे निसिद्धं जं, तं चेवेत्थ निसिज्मइ ।
पुन्चपच्छिममुत्ताणं, संबंधो इणमो इहं ॥१॥ छाया-अण्टादशे निपिद्धं यत् तदेवात्र निषिध्यते ।
पूर्वपश्चिमसूत्रयोः सम्बन्धोऽयमिह ॥१॥ । अवचूरिः-अष्टादशे उद्देशके यद् वस्तु निषिद्धं यस्य वस्तुनो निषेधः कृतः तदेव वस्तु अत्र एकोनविंशतितमे उद्देशके निषिध्यते, अयं भावः-यः श्रमणः श्रमणी वा ऋतुबद्धे वर्षावासे वा काले वस्त्रादिलाभभावनया निवास करोति स श्रमणः श्रमणी वा यतनायुक्तोऽपि प्रमादं लभते, एवं प्रकारेण अष्टादशोद्देशकस्यान्तिमभागे प्रमाद एव प्रदर्शितः, अत्रापि एकोनविंशतितमो देशकस्यादिसूत्रे प्रमाद एव प्रदश्यते, अयमेव-एककार्यकारित्वरूप एव सम्बन्धः पूर्वपश्चिमसूत्रयोः अष्टादशोदेशकान्तिमसूत्रकोनविंशतितमोद्देशकादिसूत्रयोः सम्बन्धो भवति, तदनेन सम्बन्धेन आयातस्य प्रकृतो देशकप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते । तत्र यद्यपि क्रयक्रीतादिवस्तुनो निराकरणं पूर्व कृतमेव तथापि बहुमूल्यवस्तु साधोरकल्पनीयं भवतीति तद्ग्रहणे महान् दोष आषधते इति ज्ञापनाय पुनरप्याह
सूत्रम्-जे भिक्खू वियर्ड किणइ किणावेइ कीयं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेतं वा साइज्जइ ।। सू० १॥
छाया-यो भिक्षुर्विकृतं क्रोणाति क्रापयति क्रीतमाहृत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० १॥
घूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वियई किणई' विकृतं क्रीणाति, तत्र विकृतं विकृत्या संपाद्यमानं व्यपगतजीवमचित्तं प्रपाणकादिकं वस्तु यत् साधूनां साध्वीनां वा ग्रहीतुं कल्पते तादृशमचित्तमपि प्रपाणकादि वस्तु बहुमूल्यं क्रीणातिमूल्यं दत्वा स्वयमेव क्रयणं करोति मूल्यं दत्वा स्वीकरोतीत्यर्थः 'किणावेई' कापयति, अचित्तबहुमूल्यप्रपाणकादि वस्तुनः परद्वारा मूल्यं दापयित्वा क्रयणं कारयति तथा 'कीयमाहटु दिज्जमाणं' क्रीतमाहृत्य दीयमानम् अन्यः कोऽपि श्रमणार्थं मूल्यं दत्त्वा प्रपाणकादि क्रीणाति तद्वस्तु अभिमुख