________________
निशीथसूत्रे
चूर्णी - 'तं सेवमाणे" इत्यादि । 'तं सेवमाणे' तत् अष्टादशोदेशकोक्तं प्रायश्चितस्थानम् 'सेवमाणे' सेवमान:- तादृशप्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा 'आवज्जइ आपद्यते - प्राप्नोति- 'चाउम्मासिय' चातुर्मासिकम् 'परिहारद्वाणं' परिहारस्थानं - प्रायश्चितम् 'उम्घाइयं' उद्घातिकं लघुकम्, नौकारोहणत आरम्य वस्त्रनिश्रया वर्षावासनिवासपर्यन्तोतेषु अकृत्यस्थानेषु मध्यात् एकं द्विकम् अनेकं सर्व वा पापस्थानं सेवमानः श्रमणः श्रमणी वा लघुचातुर्मासिकं प्रायश्चित्तं प्राप्नोति ॥ सू० ९१ ॥
इति श्री - विश्वविख्यात - जगद्वल्लभ - प्रसिद्धवाचक - पञ्चदशभाषाकलित ललित कलापालापकप्रविशुद्ध गद्यपद्यनैकप्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य " - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् अष्टादशोदेशकः समाप्तः ॥ १८॥
४१२