SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ निमायावरि: उ० १८.सू० ३४-९१ उद्देशकपरिसमाप्तिः ४११ 'णेयचो' ज्ञातव्यः-वस्त्रविषयको गमः सर्वोऽपि प्रतिग्रहगमवदेवात्र वक्तव्यः । कियत्पर्यन्तमित्याह'जाव' इत्यादि । 'जाव' यावत् 'जे भिक्खू वत्थनीसाए वासावासं वसई' यो भिक्षुः वस्त्रनिश्रया वर्षावासं वसति, 'वसंतं वा साइज्जइ' वसन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवतीति । प्रतिग्रहगमापेक्षया यद्वैलक्षण्यं तदाह-'णवरं इत्यादि । 'णवरं' नवरं केवलं विशेष एतावानेव यत् प्रतिग्रहगमे पात्रस्य कोरणं तीक्ष्णलोहादिशलाकया आकृतिविशेषविलिखन तिद्वषयकमेकं पञ्चपञ्चाशत्तम सूत्रं प्रोक्तम् , वस्त्रगमे 'कोरणं नस्थि' कोरणं नास्ति एक पञ्चपञ्चाशत्तम कोरणमूत्रं न वक्तव्यमिति भावः वस्त्रे कोरणासंभवादिति । अत्र चतुर्दशोहेशकप्रथममूत्रादारभ्य एकोनपष्टिमूत्रपर्यन्तानि कोरणसूत्रमन्तरेण अष्टपञ्चाशसंख्यकानिः सूत्राणि अत्राष्टादशोदेशके पठितव्यानीति भावः ॥ सू० ३४-१० अत्राह भाष्यकारः-- जो उ चउद्दसोदेसे, गमो वुत्तो पडिग्गहे । कोरणेण विणा सव्वो. वत्थेऽद्वारसमे मओ ॥ छाया-यस्तु चतुर्दशोहेशे गमः प्रोक्तः प्रतिग्रहे । कोरणेन विना सर्वो वस्त्रेऽष्टादशके मतः ॥ अवचूरिः- एतस्यैव निशीथसूत्रस्य चतुर्दशोदेशके प्रतिग्रहे पात्रं दारुपात्रमधिकृत्य यो गमः कृतः स एव सर्वः संपूर्णोऽपि कोरणसूत्रं परित्यज्य भष्टपञ्चाशत्सूत्रात्मकोऽत्र अष्टादशोदेशके वस्त्रे वस्त्रमधिकृत्य मतो ज्ञातव्यः । अयं भावः-'जे भिक्खू वत्थं किणइ किणावेइ कीयं आहहु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जई' इत्यारभ्य 'जे भिक्खू वत्थनीसाए वासावासं वसइ वसंतं वा साइज्जई' इतिपर्यन्तानि अष्टादशोदेशकसूत्राणि चतुर्दशोदेशके यथा व्याख्यातानि ते व प्रकारेण अत्रापि तेषां सूत्राणां व्याख्यानं कर्त्तव्यम् , उभयत्रैतावानेव मेदो यत् चतुर्दशोदेशके पात्रं दारुकाघधिकृत्य सूत्रप्रणयनं तद्व्याख्यानं च कृतम् , अत्र अष्टादशोद्देशके तु पात्रस्थाने वस्त्रं निवेशयित्वा सूत्राणां प्रणयनं तथा तद्वयानं च कर्त्तव्यम्, विशेषजिघृक्षभिश्चतुर्दशोद्देशकस्यैव अवलोकन कर्त्तव्यमिति ॥ सू० ३४-९० ।। सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं उग्घाइयं ॥ सू० ९१॥ ॥ निसीहज्झयणे अट्ठारसमो उद्देसो समत्तो ॥ १८ ॥ छाया--तत् सेवमान आपद्यते चातुर्मासिक परिहारस्थानमुद्घातिकम् ॥१८॥ ॥ निशीथाध्ययने अष्टादशोद्देशकः समाप्तः ॥१८॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy