SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४१० निशीयसूत्रे । अवचूरिः- य. कश्चिद् भिक्षुः श्रमणः श्रमणी वा पोडशानां च मङ्गानां मध्ये "जे भिक्खू णावागओ णावागयस्स असणं ४ पडिग्गाहेड पडिग्गाहेंतं वा साइज्जई' इत्यारभ्य 'जे भिक्खू थलग थलगयस्स असणं ४ पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जई' एतत्पर्यन्तपोडशसूत्रप्रतिपादितपोडशमङ्गमध्यात् यस्मात् कस्माञ्चिदपि भङ्गात् यस्मात्कस्माच्च कारणात् अशनादिक चतुर्विधमाहारजातं गृह्णाति गृह्णन्तं वा अनुमोदते स ज्ञाभङ्गादिकान् दोषान् आज्ञाभङ्गानवस्थामिथ्यात्वसयमात्मविराधनादिदोषान् प्राप्नोति, तस्याज्ञाभङ्गादिका दोषा भवन्तीत्यर्थः ॥ सू० ३२ ॥ सूत्रम्-जे भिक्खू वत्थं किणइ किणावेइ कीयमाहट्ट दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू०३३॥ छाया-यो भिक्षुर्ववं क्रीणाति कापयति फ्रीतमाहत्य दीयमान प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ सू० ३३ ।। चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वत्थं' वस्त्रम् चोलपट्टकादिकं च किणई' क्रीणाति-मूल्यं दत्त्वा दापयित्वा वा स्वबुद्ध्या विविच्याऽऽपणादितः क्रयणं करोति 'किणावेइ' क्रापयति स्वयमेव मूल्यं दत्वा परेण वा मूल्यं दापयित्वा परद्वारा वस्त्रस्य क्रयण कारयति, तथा, 'कीयमाटु दिज्जमाणं पडिग्गाहेई' क्रीतमाहत्य दीयमानं प्रतिगृह्णाति, कोऽपि दाता वस्त्रं क्रीत्वा अभिमुखमागत्य श्रमणाय श्रमण्यै वा तादृशवस्त्रं ददाति, तच्च वस्त्रं साधुः स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृहन्तं वा क्रयणं कुर्वन्तं कापयन्त क्रीतमभिमुखमागत्य दीयथानं स्वीकुर्वन्तं श्रमणान्तरं यः स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याऽऽज्ञाभङ्गादिका दोपा अपि भवन्ति ।। सू० ३३ ॥ सूत्रम्-एवं चउद्दसमे उद्देसए पडिग्गहे जो गमो भणिओ सो चेव, इहंपि वत्थेण णेयब्बो जाव जे भिक्खू वत्थनीसाए वासावासं. वसई वसंत वा साइज्जइ, णवरं कोरणं णत्थि ॥ सू०३४-९०॥ छाया एवं चतुर्दशे उद्देशके प्रतिग्रहे यो गमो भणितः स एव इहापि वस्त्रेण ज्ञातव्यः । यावद् यो भिक्षुः वस्त्रनिश्रया वर्षावास वसति वसन्तं वा स्वदते, नवरं कोरणं नास्ति ॥ सू० ३४-१०॥ __चूर्णी-'ए' इत्यादि । ‘एवं' एवम्-अनेन प्रकारेण यथा-'चउइसमे उद्देसए 'चतुर्दशे उद्देशके 'जो गमो भणिओ' यो गमः-प्रतिग्रहविषयको एकोनपष्टि(५९)संख्यकसूत्रात्मको भणित:-कथितः 'सो चेव' स एव-तादृश एव गमः 'इपि' इहापि 'वत्थेण' वस्त्रेण सह
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy