________________
४०६
निशीथयो जलमर्यादायां गमनशीलाम् नावम् नौकाम् 'दुरूहई' दुरोहति ताशनौकायामधिरोहणं करोति कारयति वा तथा 'दुरूईतं वा साइज्जई' दूरोहन्तं वा नौकामधिरोहन्तम् अधिरोहणं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १२॥
सूत्रम्-जे भिक्खू णावं आकसावेइ खेवावेइ रज्जुणा कटेणं वा कड्ढावेइ आकसावंतं वा खेवावंतं वा कड्डावंतं वा साइज्जइ ।। सू०१३ ॥
छाया-यो भिक्षुः नावमाकर्पयति क्षेपयति रज्ज्या काष्ठेन वा कर्पयति, आकर्षयन्तं वा क्षेपयन्तं पा कर्पयन्तं वा स्वदते ॥ सू. १३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावं नौकां जले संतरन्तीं जले निमजन्ती वा 'आकसावेई' थाकर्षयति-समीपे मानयितुं प्रेरयति 'खेवावेई' क्षेपयति चालनकाप्टेन अन्यद्वारा चालयति, तथा 'रज्जुणा' रज्ज्वा 'कडेण वा' काष्ठेन वा यष्टयादिना 'कहढावेई' कर्षयति-जलाद्वहिनिष्कासयति, एवम् आकप्रयन्त क्षेपयन्तं रज्ज्वा काष्ठेन वा नावं कर्षयन्तं श्रमणान्तरम् 'साइज्जई' स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १३ ॥
सूत्रम्-जे भिक्खू णावं अलित्तएण वा दंडेण वा पफिडिएण वा वंसेण वा वलेण वा वाहेइ वाहेंतं वा साइज्जइ ।। सू० १४॥
__ छाया-यो भिक्षुः अरित्रकेण वा दण्टेन वा पफिडिपण वा वंशेन वा वलेन वा चाहयति वाहयन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावम्-नौकाम् 'अलित्तएण वा' अरित्रकेण वा-नौचालकदण्डविशेषेण 'दंडेण वा' दण्डेन वा सामान्यदण्डविशेषेण 'पप्फिडिएण वा' 'पप्फिडिय' इति नौचालकोपकरणवाचको देशी शब्दः तेन वा 'वंसेण वा' वंशेन वा-वंशयष्ट्या वा 'वलेन वा' वला इति प्रसिद्धन पृथुलकाष्ठेन वा, एतैरुपर्युकनौकाचालकसाधनैः यः श्रमणः श्रमणी वा नौकाम् 'वाहेइ' वाहयति-चालयति स्वयं परद्वारा वा चालयति तथा 'वाहेंतं वा साइज्जई' वाहयन्तं वा नौकां चालयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स 'प्रायश्चितभागी' भवतीति ।। सू० १४ ॥
सूत्रम्-जे भिक्खू णावाउदगमायणेण वा पडिग्गहेण वा मत्तएण वा णावाउसिचणेण वा णावं उस्सिचइ उम्सिचंतं वा साइज्जइ ॥