________________
चूर्णि० उ० १८ सू०१०-१४ ऊर्ध्वगामिन्यादिनौकाया आरोहणाऽऽकर्षणादिनिषेधः ४०५
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'पडिणाविर्य' प्रतिनाविकम् एकं नाविकं प्रति अन्यो नाविकः प्रतिनाविकस्तम् । अयं भावः-अस्मिन् तटे स्थितः सन् साधुः कश्चिन्नाविकं वदति यत् नद्यादेरर्धभागेऽन्यो नाविक आगत्य मां नेष्यति मतो नद्यादेरर्धगागपर्यन्तं मां त्वं नय, इत्युत्वा नाविको निर्णीयते स प्रतिनाविकः कथ्यते, एतादृशं प्रतिनाविकम् 'कट्ट' कृत्वा 'नावाए' नावि -नौकायाम् 'दुरूहइ' दूरोहति-अधिरोहति, अन्यं वा दूरोहयति तथा 'दुरूहंत दरोहन्तम्-अधिरोहन्तं श्रमणान्तरं 'साइज्जइ' स्वदते-अनुमोदते स पायश्चित्तभागो भवति ॥ सू० १० ॥
सूत्रस-भिकर उड्डगामिर्णि वा णावं अहोगामिणि वा णावं दूरूहइ दूरुहंतं वा साइजइ ॥ सू० ११ ॥
__छाया-यो भिक्षुरूर्ध्वगामिनी वा नावमधोगामिनी वा नावं दृरोहति दूरो. हन्तं वा स्वदते ।। सू० १६ ॥
चर्णी-'जे मिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'उडढगामिणि वा नावं' ऊर्ध्वगामिनी वा नावम् स्रोतसः संमुखं गच्छती नौकां या खलु नद्यादौ वर्तमाना नौका प्रतिस्रोतः स्रोतोऽभिमुखं प्रयाति यस्मात प्रदेशात् नदी आगच्छति तमेव प्रदेश प्रति या गच्छति सा ऊर्ध्वगामिनी नौका कथ्यते, तां तादृशीं नौकाम् तथा 'अहोगामिणि वा णावं दुरूहइ' अधोगामिनी वा नावं दूरोहति, या जलप्रवाहेण सह जलप्रवाहानुसारेण गच्छति साऽधोगामिनी नौका कथ्यते, तामधोगामिनी जलस्रोतोऽनुगामिन्नी नौकां दूरोहति; तादृश्या नौकाया उपरि अधिरोहणं करोति कारयति वा तथा 'दुरूहतं वा साइज्जइ' दूरोहन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ११॥.
सूत्रम्-जे भिक्खू जोयणवेलागामिणि वा अद्धजोयणवेलागामिणि वा णावं दूरुहइ दुरूहतं वा साइज्जइ ॥ सू० १२ ॥
छाया-यो भिक्षुः योजनवेलागामिनी वा अर्द्धयोजनवेलागामिनी वा नावं दूरोहति, दुरोहन्तं वा स्वदते ॥ सू० १२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'जोयणवेलागामिणि वा णावं योजनवेलागामिनी वा नावम् योजनप्रमाणां वेलां तटं गन्तुं शीलं यस्याः सा योजनवेलागामिनी योजनपरिमितजलमर्यादोल्लविनीत्यर्थः, तां योजनवेलागामिनी नौकाम् 'अद्धयोजणवेलागामिण वा णावं' अर्द्धयोजनवेलागामिनी वा नौकाम् अर्द्धयोजनपरिमित