SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ बर्णिभाष्यावचूरिस्उ०१८ सू० १५-३२ नौछिद्रपिधान-तगतदातुरशनादिग्रहणनि० ४०७ ___ छाया-यो भिक्षुः नाबुदकभाजनेन वा प्रतिग्रहेण वा मात्रकेण वा नावृत्सिञ्चनकेन वा नावम् उत्सिऽमति-उत्सिउचन्तं वा स्वदते ॥ सू० १५॥ ___ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिभिक्षुः श्रमणः श्रमणी वा 'णावाउदगमायणेण वा' नावुदकभाजनेन-नौकोदकभाजनेन, नौकासंबन्धिनोदकपात्रेण जलनिःसारकपात्रेण 'पडिग्गहेण वा' प्रतिग्रहेण-स्वकीयाहारपात्रेण वा 'मत्तएण वा' मात्रकेन-स्वकीयलघुपात्रेण वा 'णावाउस्सिंचणेण वा' नावुसिञ्चनकेन वा-नौकोसिश्चनकेन वा येन पात्रेण नौकास्थितं जलं बहिनिष्कास्यते तादृशपात्रेण 'णावं' नावं नाकाम् 'उस्सिचइ उसिञ्चति-नौकास्थं जलं नौकातो बहिनिष्कासयति तथा 'उस्सिंचतं वा उसिञ्चन्तं वा श्रमणान्तरम् 'साइजई' स्वदते-अनुमोदते स प्रायश्चित्तमागी भवति ॥ सू० १५ ॥ सूत्रम्-जे भिक्खू नावंउत्तिंगेण उदगं आसवमाणं उवरुवरि च कज्जलावेमाणं पेहाए हत्थेण वा पाएण वा आसस्थपत्तेण वा कुसपत्तेण वा मट्टियाए वा चेलेण वा चेलकण्णेण वा पडिपिहेइ पडिपिहेंतं वा साइज्जइ ॥सू० १६॥ छाया-यो भिक्षु वुत्तिोन उदकमात्रवन्तम् उपर्युपरि च कज्जलावमानां प्रेक्ष्य हस्तेन वा पादेन वा अश्वत्थपत्रेण वा मृतिकया था वेलेन वा चेलकणेण वा परिपिदधाति प्रतिपिदधन्तं वा स्वदते ॥ सू० १६ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' य. कश्चिद् भिक्षुः-श्रमणः श्रमणी वा 'णावं उत्तिगेण नावृत्तिङ्गेन नौविलेन नौछिद्रेणेत्यर्थः 'उदगं आसवमाणं' उदकम् आस्रवन्तम् छिद्रेण नौकायां जलं प्रविशन्तं 'उवरुवरि च कज्जलावेमाणं' उपर्युपरीति वेगपूर्वकं कज्जलावमानां बुडन्ती प्लाव्यमानामित्यर्थः 'ब्रुडः कज्जलाव' इति वचनात् 'पेहाए' प्रेक्ष्य-दृष्ट्वा तन्निरोधार्थम् 'हत्थेण वा हस्तेन वा 'पाएण वा' पादेन वा 'आसत्थपत्तण वा' अश्वत्थपत्रेण वा पिप्पल. पत्रेण वा 'कुसपत्तेण वा कुशपत्रेण वा दर्भसमूहेन वा 'मट्टिहयाए वा मृत्तिकया वा 'चेलेण वा चेलेन वस्त्रेण वा 'चेलकण्णेण वा' चेलकर्णेन वा वस्त्रखण्डेन वस्त्रान्ति मभागेन वा 'पडिपिहेइ' प्रतिपिदधाति-छिद्रस्य मुखं निरुणद्धि अन्येन वा छिद्रनिरोधं कारयति 'पडिपितं वा साइज्जई' परिपिदधतं वा छिद्रेण- नौकायां प्रविशतो जलस्य हस्तादिना निरोध कुर्वन्तं श्रमणान्तरं यः स्वदते--अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १६ ॥ सूत्रम्--जे भिक्खू णावागओ णावागयस्स असणं वा पाणंवा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गाहेत वा साइज्जइ ॥ सू०१७॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy