SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१८ सू०-१-९ नौकाया आरोहणक्रयणादिनिषेधः ४०३ छाया - एवं यः चतुर्दशे उद्देशे प्रतिग्रहगमः स ज्ञातव्यः यावद् आछेद्यम् अनिसृष्टम् अभिहृतम् माहृत्य दीयमानं द्ररोहति दोहन्तं वा स्वदते ॥सू० ३॥ चूर्णी - ' एवं ' इत्यादि । ' एवं ' एवम् अनेन प्रकारेण नौक्रीणनरीत्या 'जो चउद्दसमे उसे पडिग्गहगमों' यश्चतुर्दशे उद्देशे प्रतिप्रहगमः पात्रग्रहणगमकः प्रोक्तः 'सेणेयन्त्रो' सोऽत्र नौका विषये ज्ञातव्यः - वक्तव्यः कियत्पर्यन्तमित्याह - ' जाव' यावत् 'अच्छेज्जं' माच्छेषां कस्यापि हस्तादाच्छिय स्थापितां 'अणिसिहूं' अनिसृष्टां नौकां स्वामिनाऽदत्तां तत्स्वामिन अज्ञामन्तरेण गृहीताम् 'अभिहडं' अभिहृतां - स्थानान्तरात् आनीताम् 'आदड दिज्जमाणं' आद्वत्य - संमुखमानीय दीयमानां नावम् ' दुरूहइ' दूरोहति - आरोहति 'दुरुहंत वा साइज्जड़' दूरोहन्तं - नावमधिरोहन्तं श्रमणान्तरं स्वदते स प्रायवित्तभागी भवति । भत्र सूत्रे 'जाव' इति यावत्पदेन "जे भिक्खू' नावं पामिच्चेइ नावं परियई' इति सूत्रद्वयं संप्रायम् मर्थस्तत्रैव चतुर्दशोद्दे के द्रष्टव्य इति । विशेषस्तावदेतावानेव यत्- चतुर्दशो देशके प्रतिग्रहशब्दः प्रोक्तः, अत्र तु 'नौ' शब्दं प्रयोज्य आलापका विधातव्या इति ॥ अत्राह भाष्यकारः - भाष्यम् – 'जो कीणइ सयं णावं, पामिच्चाइयमारुहे । आणाभंगाइ पावेर, मिच्छत्तं च विराहणं ॥ छाया -- यः क्रोणाति स्वयं नौकां प्रामित्यादिकामारोहेत् । आशाभङ्गादि प्राप्नोति मिध्यात्वं च विराधनम् ॥ अवचूरिः--यो भिक्षुः श्रमणः श्रमणी वा स्वयमेव नौकां क्रीणाति-मूल्यसमर्पणेन स्वात्माघीनां करोति अन्यद्वारा वा नौकायाः क्रयणं कारयति तथा प्रामित्यादिदोषदुष्टां नावमारोहेत् पूर्वोक्तप्रकारां नौकामधिरोहति, आरोहन्तं नौकायामधिरोहणं कुर्वन्तं श्रनणान्तरमनुमोदते, स माज्ञाभङ्गमनवस्थां मिध्यात्वं संयमविराधनमात्मविराधनं च प्राप्नोतीति भाष्यार्थः ॥ सू० ३-५ ॥ सूत्रम् - जे भिक्खू थलाओ नावं जले ओक्कसावेइ ओक्कसावेत वा साइज्जइ ॥ सू० ६ ॥ छाया - यो भिक्षुः स्थलात् नावं जले अवकर्षयति अवकर्षयन्तं वा स्वदते ॥० ६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'थलाओ' स्थलात्जलपार्श्वस्थभूमिभागात् तटादित्यर्थः ' णावं' नावम् - नौकाम् 'जले ओक्कसावेइ' जले - नद्यादि - जलप्रवाहे अवकर्षयति- अवतारयति स्थले विद्यमानां नौकां जले करोति - कारयति वा तथा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy