________________
निशीथसने થ૦૨ साइज्जइ' दूरोहन्तं वा स्वदते, यो हि श्रमणः जलाशयपारगमनाय नौकामधिरोहति तमनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥
अत्राह भाष्यकार:भाष्यम्--'णावारोहण साहुस्स अणहाए असेयसे ।
कोउहल्लेण नारोहे, नन्नत्यागाढकारणा ॥१॥ छाया-नौकाधिरोहणं साधोरनीय अश्रेयसे ।
कौतूहलेन नारोहेत, अन्यत्रागाढकारणात् ॥१॥ अवचूरि:-'साहुस्स' साधोः नावारोहण मनाय-अश्रेयसे अकल्याणाय च भवति तत्र षट्कायविराधनाया अवश्यम्मावात् , अथवा अनर्थाय-अप्रयोजनाय प्रयोजनं विना साधोन वारोहणम् अश्रेयसे-अमोक्षाय संसाराय भवत्येव अतः कौतूहलेन शब्दश्रवणादिकुतूहलमाश्रित्य साधुः कदापि नावं नारोहेत्, कदेव्याह-आगाहकारणादन्यत्र-गादागाढकरणं विना नारोहेत् । तत्र गाढागाढकारणं च गुरुसेवाग्लानवैयावृत्त्यादिकम् ।। सू० १ ॥
सूत्रम्-जे भिक्खू णावं किणइ किणावेइ कीयं आहहु दिज्जमाणं दुरूहइ दुरुहंतं वा साइज्जइ ॥ सू० २ ॥
छाया-यो भिक्षुः नौकां फ्रीणाति-झापयति क्रोतमाहत्य दीयमानं दूरोहति दूरोहन्तं वा स्वदते ॥सू०२॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'णावंकिणई' नौकां क्रीणाति-मूल्यं दत्वा स्वीकरोति 'किणावेई' क्रापयति-मूल्यं दत्वा अन्यद्वारा नौकायाः क्रयणं कारयति, तथा 'कीयं आहटु दिज्जमाणं' क्रीतमाहृत्य दीयमानम् अन्यः कोऽपि मूल्यं दत्वा नौकां क्रोणाति, स च क्रीत्वा अभिमुखम् आहृत्य श्रमणाय ददाति तत् क्रोतमाहृत्य दीयमानमिति कथ्यते, क्रयक्रीतामभिमुमानीय दीयमानां नौकां श्रमणः श्रमणी वा 'दुहई' दूरोहति-तदधिरोहणं करोति, तथा 'दुरुहंतं वा साइज्जई' दूरोहन्तं वा-नौकाया अपरि अधिरोहणं कुर्वन्तं श्रमणान्तरं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।सू० २॥
सूत्रम्-एवं जा चउद्दसमे उद्देसे पडिग्गहगमो सो णेयव्वो जाव अच्छेज्जं अणिसिढे अभिहडमाहटु दिज्जमाणं दूरूहइ दूरुहंतं वा साइज्जइ ॥ सू०३-५॥