________________
पूर्णिभाष्यावद्रिः उ० १७ सू० २३९-२४२ माल विकृताधर नादनिषेधः ३८९ पर्यन्तानि षट्पञ्चाशत्सूत्राणि पठितव्यानि ५६ । एवमेव 'जा निग्गंथी निग्गंथीए पाए' इत्यादि, निम्रन्थीकारितनिर्ग्रन्थीपादप्रमार्जनादीनि शीर्षद्वारिकापर्यन्तानि षट्पञ्चाशत्सूत्राणि वक्तव्यानि ५६ । एतानि सर्वाणि पञ्चदशसूत्रादारभ्य-अष्टत्रिशदधिकद्विशत(२३८) सूत्रपये नि चतुर्विशत्यधिकद्विशत(२२४) संख्यकसूत्राणि तृतीयोद्देशकगतषोडशसूत्रादारभ्य एकसप्तति सूत्रपर्यन्तोक्तगमानधिकृत्य षट्पञ्चाशत्सूत्राणि 'जे निग्गंथे निग्गंथस्स' इत्यादिषु चतुर्वपि प्रत्येकं पठितव्यानि, तदर्थोऽपि तदनुसारेणैव ज्ञातव्यः ।। सू० १५-२३८ ॥
जे णिग्गंथे णिग्गंथस्स सरिसगस्स अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ।। सू० २३९।।
छाया--यो गिर्ग्रन्थो निर्ग्रन्थाय सदृशकायाऽन्तरवकाशे सति अवकाशं न ददाति न ददतं वा स्वदते ॥ सू० २३९ ॥
चूर्णी - 'जे णिग्गंथे' इत्यादि । 'जे णिग्गथे' यः कश्चिद् निर्ग्रन्थः श्रमणः 'णिगंथस्स सरिसगम्स' निर्ग्रन्थाय सदृशकाय-यो यस्य समानसामाचारीकः स तस्य सदृशः कथ्यते, एतादृशाय समागताय श्रमणाय 'अंते ओवासे संते' अन्तः-स्ववसतिमध्ये अवकाशे निवासस्थाने सति-विद्यमानेऽपि 'ओवास' अवकाश-निवासस्थानम् 'न देइ' न ददाति-न समर्पयति तथा 'न देंतं वा साइज्जई' विद्यमानमपि अवकाशं न ददतं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० २३९ ॥
सूत्रम्--जा णिग्गथी णिग्गंथीए सरिसियाए अंते ओवासे संते ओवासं न देइ न देंतं वा साइज्जइ ।। सू० २४०॥
छाया- या निर्ग्रन्थी निर्ग्रन्थ्यै सदृशकाये अन्तरवकाशे सति अवकाशं न ददाति न ददर्ती वा स्वदते ॥ सू०२४० ॥
चूर्णी---'जा णिग्गंथी इत्यादि 'जा णिग्गंथी' या काचित् निर्ग्रन्थी-श्रमणी णिग्गं. थीए सरिसिया निन्थ्ये-श्रमण्यै सदृशकायै समानकल्पस्थित्यादिमत्यै 'अंतेओवासे संते' अन्तमध्ये सति अवकाशे -निवासस्थाने स्ववसतौ 'ओवासं न देइ' अवकाश-निवासस्थानं न ददाति न प्रयच्छति, काचित् श्रमणी परग्रामादिस्थानान्तरात् समागच्छेत् तस्यै यदि इयं श्रमणी . मत्समानधर्मिणी' इति ज्ञात्वाऽपि स्ववसतौ निवासं न ददाति तथा 'न देंतं वा. साइज्जइ' न ददप्ती वा तां या स्वदने अनुमोदते सा प्रायश्चित्तभागिनी भवति, तथा तस्याः आज्ञाभङ्गादिका अपि दोषा भवन्ति ।