SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्र wwwwww अत्राह भाष्यकार:भाष्यम्-निग्गंथो तह निग्गंथी, सस्स सस्स परोप्परं । संतावासं न जं. देई, आणाभंगाइ पावई ॥१॥ छाया निम्रन्थस्तथा निम्रन्थी स्वस्य स्वस्व परस्परम् । सन्तमावासं न यत् ददांति, आज्ञाभङ्गादि प्रामोति ॥१॥ अवचूरिः-- निर्ग्रन्थः साधुः तथा निम्रन्थी साध्वी स्वस्य स्वस्य परस्परं साधुः समानसामाचारीकाय सायवे, साध्वी समानसामाचारीकायै माध्यै सन्तं विद्यमानं स्वस्थितोपाश्रये आवासं सदपि निवासस्थानं यत्- यदि न ददाति तदा सः साधुः साध्वी वा आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ सू० २४० ॥ सूत्रम्-जे भिक्खू मालोहडं असणं वा पाणं वा खाइमं वा खाइमं वा दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० २४१ ॥ __ छाँया-यो भिक्षुर्मालावहृतम् अशनं वा पानं वा खाद्यं वा स्वायं वा दीयमानं प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥ २० २४१॥ __चूणिः- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'मालोहडं' मालाऽवहृतम्, तत्र मालावहृतम्-मालः स्थानविशेषः तस्माद् अवहृतम्-अपेकृष्टं मालावहृतम्-तत् त्रिविधम्-ऊर्ध्वाधस्तिर्यगभेदात्, तत्र ऊर्ध्वमालावहृतम्-उच्चप्रदेशात् निश्रेण्या: दिनाऽवतारितम् १ अधोमालावहतम्-भूमिगृहादित आनीतम् २, तिर्यड्मालावहृतम्-मञ्चादितो' ऽवतारितम् ३ । एतादृशम्, 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाचं वा 'खाइमं वा' स्वाद्यं वा चतुर्विधमाहारजातम् 'दिज्जमाणं' दीयमानम्, यो भिक्षुः "पडिग्गा- . हेई' प्रतिगृह्णाति-स्वीकरोति तथा 'पंडिग्गाहेंत वा साइज्जई' प्रतिगृह्णन्तं वां श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २४१॥ सूत्रम्-जे भिक्खू कोहाउत्तं असणं वा पाणं वा खाईमं वा साइमं वा उक्कुज्जिय णिक्कुज्जिय दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० २४२ ॥ छाया-यो भिक्षुः कोष्ठायुक्तम् अशनं वा पानं वा खाद्य वा स्वायं वा उत्कुज्य निष्कुज्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥ २४२॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'कोहाउत्तं' कोष्ठायुक्तम् , तत्र कोष्ठं नाम-मृत्तिकादिनिर्मितपुरुषैकप्रमाणं ततो हीनमधिकं वा 'कोठा' इति लोकप्रसिद्ध तादृशकोष्ठादौ स्थितम् 'असणं वा' अशनं वा 'पाणं वा' पानं वा
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy