________________
निशीथसूत्रे
छाया - एवम् - तृतीयोदेशकगमो भणितव्यः यावत् यो निर्ग्रन्यः निर्ग्रन्थस्य ग्रामानुग्रामं द्रवतः अन्ययूथिकेत गार्हस्थेिकेन वा शीर्षदीवारिकां कारयति कारयन्तं वा स्वदते (५५) ॥ सु० १६ - ७० ॥
३८८
एवम् यो निर्ग्रन्थः निर्ग्रन्थ्याः ० (५६) ॥ सू० ७१ - १२६ ।। एवम् या निर्ग्रन्थी निर्यन्थस्य० (५६) ।। सू० १२७ -१८२ ।। एवम् - या निर्ग्रन्थी निर्मन्थ्याः ० (५६) ॥सू०१८३-२३८॥
चूर्णी - ' एवं ' इत्यादि । एवम् अनेन क्रमेण 'तइयउद्देसगमो भाणियन्चो' तृतीयो - देशकगमो मणितव्यः कथयितव्यः कियत्पर्यन्तमित्याह - 'जाव' इत्यादि । 'जाव' यावत्तृतीयोद्देशकगत सप्तदशसूत्रादारम्य एकसप्ततितमसूत्रपर्यन्तं पञ्चपञ्चाशत्सूत्र कदम्बकमत्र वाच्यम्, तदन्तिमसूत्रमाह- 'जे निग्गंथे' इत्यादि । 'जे निग्गंथे' यः कश्चित् निर्ग्रन्थः 'निग्गंथस्स' निर्ग्रन्थस्य- स्वात्मभिन्नान्यश्रमणस्य 'गामाणुगामं दुइज्जमाणस्स' प्रमानुप्रामं प्रामाद् ग्रामान्तरं विहरतः 'अन्नउत्थिषण वा अन्ययूथिकेन अन्यदार्शनिकेन 'गारस्थिपण वा' गार्हस्थिकेन गृहस्थेन वा 'सीसदुवारियं' शीर्पदौवारिकां शिरसि छत्राकाराच्छादनरूपां 'कारावेइ' कारयति ‘कारावेंतं वा साइज्जइ' कारयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ( ५५ ) ॥ सू० १६-७० ॥
एवम् -'जे निग्गंथे-निगंथीए०' अत्रापि पादामार्जनादारभ्य श्रीर्पदौवारिकापर्यन्तानि पट्पञ्चाशत्सूत्राणि वाच्यानि ( ५६ ) ॥ सू० ७१–१२६ ॥
एवम्- 'जा निग्गंधी निग्गंथस्त०' अत्रापि पट्पञ्चाशत्सूत्राणि वाघ्यानि (५६) ॥ सू० १२७–१८२) एवम् 'जा निग्गंथी निग्गंथीए०' अत्रापि षट्पञ्चाशत् सूत्राणि बोध्यानि (५६) । सू०१८३-२३८॥
एतानि सर्वाणि सूत्राणि तृतीयोदेशक सूत्रकदम्बकवद, व्याख्येयानि, भेदस्ताप देतावानेव - यत् तत्र पादामार्जनादः स्वयं करणं कथितम्, अत्र तु परेण कारणमिति । पट्पञ्चाशत्सूत्राणि यथापरसूत्राणि पादविषयकाणि ६, एवं पट् कायस्य १२, पड् व्रणस्य १८, पड् गण्डविषयस्य २४, पायुकृमि - दोर्पनखशिखांत द्वयम् २६, अष्ट, रोमविषयाणि ३४, त्रीणि दन्तानाम् ३७, पड् ओष्ठस्य ४३, एकमुत्तरोष्ठस्य ४४, एकगक्षिपत्रविपयकम् ४५, पड़ अक्ष्णोः ५१, भ्ररोम- पार्श्व रोमविषयकं द्विकम् ५३, अस्यादिमलविषयकमेकम् ५४, कायस्वेदविषयकमेकम् ५५, एकं च शीर्षद्वारिका विषयकम् ५६, इति पट्ट्पञ्चाशत् सूत्राणि ५६ । एवमेतानि पट्पञ्चाशत्सूत्राणि 'ज निग्गंथे निग्गंथीए पाए' इत्यादिनिर्ग्रन्थकारित निर्ग्रन्थीपाद प्रमार्जनाद्यारम्य शीर्षद्वारिकापर्यन्तानि वाघ्यानि ५६ । एवमेत्र 'जा निग्गंथी निगंथस्स पाए' इत्यादिनिर्मन्थाकारितनिर्मन्थपादप्रमार्जनादीनि शीर्षद्वारिका-