________________
vwww
पूर्णिभाष्यावरिः उ० १७ सू० १-४ तृणादिमालिकाकरणधरणपरिभोगनिषेधः ३८३ ____ अवचूरिः-तृणादिपाशजातेन- तृणमुजादिना निर्मितेन पाशजातेन केनापि प्रकारेण पाशेन दवरिकया त्रसाणां बन्धमोचनं वन्धनं मोचनं च कौतूहलेन कुतूहलबुद्ध्या विनोदहास्याद्यर्थ नो कुर्यात् , किन्तु दयाथ दयानिमित्तं बन्धनं मोचनं च न निषिध्यते जलाग्न्यादितो रक्षणार्थ बन्धनस्य मोचनस्य च निषेधो भगवता न कृतः, अतएव 'कोऊहलबडियाए' इति सूत्रे कथितम् ।सू०२।
सूत्रम्-जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिंडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हड्डमालियं वा कट्ठमालियं ना पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालियं वा हरियमालियं वा करेइ करेंतं वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुः कौतूहलप्रतिक्षया तृणमालिका वा मुञ्जमालिकां वा भिण्डमालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिका वा शृङ्गमालिकां वा शामालिकां वा अस्थिमालिकां वा काष्ठमालिका वा पत्रमालिका वा पुष्पमालिकां वा फलमालिकां वा वीजमालिकां वा हरितमालिकां वा करोति कुर्वन्तं वा स्वदते ॥ सू० ३॥
चूणी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणीवा 'कोउहल्लबडियाए' कौतूहलप्रतिज्ञया-आत्मनो विनोदाभिप्रायेण 'तणमालियं वा' तृणमालिकां वा, तत्र तृणानां-दर्भादितृणविशेषाणां मालिकां मालां करोति-तृणादिना मालां निर्माति 'मुंजमालियं वा' मुञ्जमालिकां वा-तृणविशेषरूपमुखस्य मालिका निर्माति 'भिंडमालियं वा' भिण्डमालिका वा, भिण्डः-वनस्पतिविशेषः तस्य मालाम् 'मयणमालियं वा' मदनमालिकां वा-मदनस्य 'मोम' इति लोकप्रसिद्धस्य मालाम् 'पिच्छमालियं वा' पिच्छमालिकां चा-मयूरादिपिच्छानां मालाम् 'दंतमालिय वा' दन्तमालिकां वा-गजादिदन्तानां मालाम् "सिंगमालियं वा' शृङ्गमालिकां वा-हरिणमहिषादिशृङ्गाणा मालाम् 'संखमालियं वा' शङ्खमालिकां वा-शद्धानां मालाम् 'हड्डमालियं वा' अस्थिमालिकां वा-महिण्याद्यस्यां मालाम्, 'कट्ठमालियं वा' काष्ठमालिका वा-तुलस्यादिकाष्ठानां मालाम् 'पत्तमालियं वा' पत्रमालिकां वा-तुलस्यादिपत्रनिर्मिता मालाम् 'पुप्फमालियं वा' पुष्पमालिकां वा-चम्पादिपुष्पाणां मालाम् ‘फलमालियं वा' फलमालिकां वा-अनेकप्रकारकफलानां मालाम् 'वीयमालियं वा' बीजमालिकां वा-रुद्राक्षादिबीजानां मालाम् 'हरियमालियं वा' हरितमालिकां वा-हरितकायवनस्पतीनां सम्बन्धिनी मालाम्, 'करेई' करोति-संपादयति, तथा 'करेंतं वा साइज्जई' कुर्वन्तं-तृणादिविविधवस्तूनां माला कुर्वन्तं संपादयन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गरदिका दोषा अपि भवन्ति ॥ सू. ३॥ ।