SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ निशीथसूत्रे सूत्रम्-जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिंडमालियंवा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालिय वा संखमालियं वा हड्डमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीयमालिय वा हरियमालियं वा घरेइ धरतं वा साइज्जइ ।। सू०४॥ छाया--यो भिक्षुः कौतूहलपतिशया तृणमालिकां वा मुखमालिकां वा भिण्डमा लिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा शृङ्गमालिका वा शडामालिकां वा अस्थिमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा वीजमालिकां वा हरितमालिकां वा धरति धरन्तं वा स्वदते ॥ सू०४॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'कोउइल्लपडियाए' कौतूहलप्रतिज्ञया तृणादिसम्पादितां मालां धरति-हस्तादौ स्थापयति धरन्तं वा स्वदते स प्रायश्चित्तभाग् भवति ॥ सू० ४ ॥ एवं परिभुजई' इत्यपि सूत्रम्-'परिमुंजई' परिभुङ्क्ते-तृणादिमालायाः सुगन्धस्पर्शादिना उपभोगं करोति कण्ठे धारयति वा । तृणादिमालाविषयककरण-धरण-परिभोगप्रदर्शकानां त्रयाणां सूत्राणां व्याख्या सप्तमोद्देशके द्रष्टव्या । विशेषस्तु एतावानेव यत्तत्र 'मैथुनप्रतिज्ञया' इति पदेन कथितम् , अत्र तु 'कौतुहलप्रतिज्ञया' इति पदेन वाच्यम्, एवमग्रेऽपि ॥ अत्राह भाष्यकार:कोऊहल्लेण अन्नेण, केणावि कारणेण जो । तणाइमालियं कुज्जा, घरेज्जा परिभुंजए ॥१॥ आणाभंगाइदोसाई, पावई सो अणेगहा । तम्हा भिक्खू विवज्जेज्जा, मालियाकरणाइयं ॥२॥ छाया-कौतृहलेन अन्येन केनापि कारणेन यः। तृणादिमालिकां कुर्यात् धरेत् परिभुञ्जीत ॥१॥ आशामादिदोषान् , प्राप्नोति स. अनेकधा । तस्माद् भिक्षुर्विवर्जयेत् , मालिकाकरणादिकम् ॥ २॥ अवरिः—यः कोऽपि निम्रन्थः निम्रन्थी वा कुतूहलेन हास्यविनोदादिना तथा अन्येन वा केनाऽपि कारणेन रागद्वेषमोहादिना तृणादिमालिकां कुर्यात् धरेत् परिभुञ्जीत वा स आज्ञाभङ्गादिदोपान् अनेकप्रकारकान् प्राप्नोति तस्मात् कारणात् भिक्षुः मालिकाकरणादिकं, मालि
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy