________________
निशीथसूत्रे
૩૮૨
वा, तत्र वेत्रं नाम लताविशेषः 'वेंत' इति लोकप्रसिद्धः तेन वेत्रेण निर्मितः पाशको दवरिका तेन त्रपाशकेन 'रज्जुपासएण वा रज्जुपाशकेन वा तत्र राणादिना निर्मिता या रच्जुः तस्याः पात्रको दवरिका तेन रज्जुपाशकेन 'सुत्तपासएण वा' सूत्रपाशकेन वा तत्र सूत्र - कार्पासिकादिकं तेन निर्मितः पाशको दवरिका तेन सूत्रपाशकेन, एतेपां तृणादिपाशकानामन्यतमेन पाशकेन कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं यः श्रमणः श्रमणी वा 'वध' बध्नाति त्रसप्राणजातस्य वन्धनं करोति कारयति वा तथा 'बंधतं वा साइज्जइ' बध्नन्तं वा श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १ ॥
सूत्रम् -- जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं तण - पासएण वा, मुंजपासएण वा, कट्ठपासएण वा, चम्मपासएण वा, वेत्तपासएण वा, रज्जुपासएण वा सुत्तपासएण वा, बंधेल्लगं मुयइ मुयंत वा साइज्जइ ॥ सू० २ ॥
छाया -यो भिक्षुः कौतूहलप्रतिज्ञया अन्यतमं त्रसप्राणजातं तृणपाशकेन वा मुखपाकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा रज्जुपाशकेन वा सूत्रपाशकेन वा वद्ध मुञ्चति, मुञ्चन्तं वा स्वदते ॥ सू० २ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कद्विक्षुः श्रमणः श्रमणी वा 'कोउइल्लवडियाएं' कौतूहलप्रतिज्ञया - हास्यविनोदाद्यभिलाषेण 'अण्णयरं तसपाणजायं' अन्यतमं त्रसप्राणजातम् तृणादिपाशकेन 'बंधेगं' बद्धं 'मुंबई' मुञ्चति - बन्धनविमुक्तं करोति, तथा 'मुतं वा साइज्जई' मुञ्चन्तं चा स्वदते-बन्धनबद्ध प्राणिजातं बन्धनात् विमोचयन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति । अत्र कुतूहलादिना त्रसप्राणिनां बन्धने मोचने च तेषामबोधत्वेन जलाग्निगर्तपातादिना मरणसंभवात्तन्निषेधः कृतः किन्तु अग्निना ज्वलतां जलेन प्लावयमानानां हिंस्रैर्हन्यमानानां सर्पादिभिर्दश्यमानानां तु दयावुद्ध्या बन्धनं मोचनं च कर्तव्यमेव, न तन्निषेधः । सूत्रे तु कौतूहलप्रतिज्ञया बन्धनविमोचनस्यैव निषेधो न तु दयाबुद्धयेति तत्त्वम् ||
अत्राह भाष्यकार:
तणाईपासजाएणं, तसाणं बंधमोयणं । कोऊहल्लेण नो कुज्जा, दयहं ण णिसिज्झई ॥ छाया - तृणादिपाशजावेन त्रसाणां वन्धमोचनम् । कौतूहलेन नो कुर्यात्, दयार्थे न निषिध्यते ॥