________________
निशीथसत्रे अन्यसंयतार्थ याचकं याचमानं वाऽनुमोदयतो भिक्षुकस्य के दोषा भवन्ति तत्राह भाग्यकार:-'अकारण' इत्यादि । भाष्यम्-अकारणं जायमाणे भिक्खू सूई च पोसगो।
आणाणवटामिच्छत्तं तहेव य विराहणं ॥ छाया-अकारणं याचमानो भिक्षः सूची च पोपकः ।
आज्ञानवस्थामिन्यात्वं तथैव च विराधनम् ॥ अवचूरी-'अकारणं' इति । भिक्षुर्निरवभिक्षवृत्तिमान् श्रमणः सूच्याः याचनां कुर्वन् सूची याचमानस्य पोपकोऽनुमोदको वा साधुः आज्ञाभंगदोषान् प्राप्नोति । न खल्वेतादृशी तीर्थकरस्याज्ञा, यत्--साधुभिः अन्याथ सूच्याः याचनां करोतु । ततश्च तथाकुर्वन् श्रमणस्तीर्थकराज्ञाभंगं प्राप्नोति, तथाऽनवस्थादोपोऽपि प्रसज्जते तथा कर्तुः एवं मिथ्यात्वदोषं चापि प्राप्नोति तथैव विराधनम् आत्मविराधनां--संयमविराधनां-भाषासमितिविराधनां च प्राप्नोति ॥ सू० २० ॥
सूत्रम्-जे भिक्खू अणट्ठयाए पिप्पलगं जायइ, जायंतं वा साइज्जइ ॥ सू० २१॥
छाया-यो भिक्षुः अनर्थतया पिप्पलकं याचते याचमान वा स्वदते ॥ २० २१ ॥
चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अणहयाए' अनर्थतयानिष्प्रयोजनम्, कारणं विनेत्यर्थः । 'पिप्पलगं' पिप्पलकम्-'कैची' ति लोकप्रसिद्धम् 'जायई' याचतेअन्यतीथिकादिभ्यः । 'जायंतं वा साइज्जई' याचमानं वा स्वदते-अनुमोदते स प्रायश्चित्तभाग् भवतीति । सू० २१ ॥
सूत्रम्-जे भिक्खू अणट्ठयाए कण्हसोहणं जायइ, जायंत वा साइज्जइ ॥ सू० २२॥
छाया-यो भिक्षुरनर्थनया कर्णशोधनकं याचते, योचमानं या स्वदते ॥ सू० २२ ॥
चूर्णी-'जे मिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'अणट्टयाए' अनर्थतया, तत्रार्थः प्रयोजनम-न-अर्थः इत्यनर्थः प्रयोजनाभावः । तमुद्दिश्य-कण्णसोहण' कर्णशोधनकम्, कर्णमलमपहतु, साधनविशेषलक्षणम् । 'जायड' याचते, अन्यतीर्थिकम्यो गृहस्थेभ्यो वा । जायंत वा साइज्जई' याचमानं वा स्वदते -अनुमोदते स प्रायश्चित्तमाम् भवति ॥ सू० २२ ॥