SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १८-२२ अकुशलप्रतिसेवना १९ चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः साधुः 'पिप्पलगस्स' पिप्पलकस्य- कतरिकायाः 'कैची' तिलोकप्रसिद्धस्य । 'उत्तरकरणं' उत्तरकरणम् पिप्पलकस्य तीक्ष्णादिसंपादनम् अपरभागस्य लोहकारगृहं गत्वा ऋजुतादिसंपादनम् । तथा--षोडशसूत्रोक्तं सर्वमिहोत्तरकरणशब्देन ज्ञातव्यमिति संक्षेपः ॥ सू० १७ ॥ सूत्रम्-जे भिक्खू नहच्छेयगस्स उत्तरकरणं अन्नउत्थिएण वा-गारथिएण वा करेइ करेंतं वा साइज्जइ ॥ सू० १८॥ छाया-यो भिक्षुः नखच्छेदकस्य उत्तरकरणम् अन्ययूथिकेन वा गृहस्थेन वा करोति, कुर्वन्तं वा स्वदते ॥ सू० १८ ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'नहच्छेयगस्स' नख 'छेदकस्य, नखं पादर्ज, हस्तजं वा छिनत्ति येन स नखच्छेदकः 'नहरनी' ति लोकप्रसिद्धः तस्य नखच्छेदकस्य--उद्धरकरणं करोति कुर्वन्तं वा स्वदते, पूर्वसूत्रवत् दोषभाग्भवतीति ज्ञातव्यम् ॥ सू० १८ ॥ सूत्रम्-जे भिक्खू कण्णसोहणगस्स उत्तरकरणं अन्न उत्थिएण वा गारथिएण वा करेइ, करेंतं वा साइज्जइ ॥ १९॥ , छाया--यो भिक्षुः कर्णशोधनकस्य उत्तरकरणमन्ययूथिकेन वा गृहस्थेन वा करोति कुर्वन्तं वा स्वदते ॥ सू० १९ ॥ __ चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'कण्णसोहणगस्स' कर्णशोधनकस्य, येन साधनविशेषेण कर्णयोरन्तर्वर्तिमलमपनीयते-तत्कर्णशोधनकम्, एतादृशस्य कर्णशोधनकस्य । उत्तरकरणं नाम--केनचित् शस्त्रविशेषेण तीक्ष्णीकरणं, त्रुटितस्य लोहकारगृहे संघापनादिकरणम् । एतादृशमुत्तरकरण पूर्ववत् ज्ञेयम् ॥ सू० १९ ॥ सूत्रम्-जे भिक्खू अण्णट्ठयाए सूई जायइ जायंतं वा साइज्जइ ॥२०॥ छाया--यो भिक्षुरनथतया सूची याचते याचमानं वा स्वदते ॥ सू० २०॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अण्णहयाए' अनर्थतया प्रयोजन विना, अन्यतीर्थिकेभ्यः श्रावकेभ्यो वा 'सूई जायई' सूची याचते. कारणमन्तरेणैव सूचीयाचनां कुरुते । अथवा -'जायंतं वा साइज्जइ याचमानमन्यं स्वदते अनुमोदते । यो भिक्षः कारणमन्तरेणैव श्रावकादिभ्यः सूची स्वयं याचते-प्रार्थयति. सदोषभागू भवतीति ॥सू०२०॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy