SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू सूचीए उत्तरकरणं वा अन्नउत्थिएण वा गारथिएण वा करेइ करेंतं वा साइज्जइ ।। सू० १६॥ छाया-यो भिक्षुः सूच्या उत्तरकरणम् अन्ययूथिकेन वा गृहस्थेन वा करोति फुर्वन्तं वा स्वदते ॥ सू० १६ ।। चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिभिक्षुः 'सूचीए उत्तरकरण? सूच्या उत्तरकरणम्, तत्र 'सूची सूई' इति प्रसिद्धा, तस्या उत्तरकरणं तीक्ष्णतादिसंपादनम् । 'अन्नउत्थिएण वा' अन्ययथिकेन तीर्थान्तरिकेण 'गारथिएण वा' गृहस्थेन श्रावकादिना वा करोति 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते अनुमोदते । यो हि भिक्षुः सूच्योत्तरकरणमन्यतीर्थिकेन करोति अथवा कुर्वन्तमनुमोदते, स साधुः माज्ञाभंगादिकान् दोषान् प्राप्नोति ॥ स० १६ ॥ अत्राह भाप्यकार:-- भाष्यम्-विलवड्ढकरणं लण्हस्स करणं तदा । पज्जलणं उजुकरणं उत्तरकरणं वुहा ॥ छाया-बिलवर्धनकरणं लक्ष्णस्य करणं तथा । प्रज्वलनम् ऋजुकरणमुत्तरकरणं वुधाः ॥ अवचूरिः--'विलवड्ढकरणं' इत्यादि । सूच्या-उत्तरकरणम् तत्र किमिदमुत्तरकरणं तत्राह भाष्यकारः विलवर्धनकरणमित्यादि । विलवर्धनकरणं सूच्या यत्-विलं छिद्रं तस्य चर्द्धनं वृद्धिः तस्य करणं संपादनम् , तथा-श्लदणस्य-मूच्छितस्य कार्ये मन्दतामुपगतस्य तीक्ष्णीकरणम्-शिला घर्पणादि । तथा पज्जलणं प्रज्वलनम्-मन्दलौहस्याऽग्नौ संताप्य सन्ताड्य जले प्रक्षिप्योज्वलीकरणम् । तथा-ऋजुकरणम्-चक्रस्य-कुटिलस्य सरलता सपादनम् । एतत्सर्वमुत्तरकरणशब्देन प्रतिपादितम् । मून्याः उत्तरकरणे यस्मादग्निकायविराधनद्वारा पट्कायविराधना आज्ञाभंगादिका दोषा भवन्ति । तस्मारमून्या उत्तरकरणं न कुर्यान्नवा-कुर्वन्तमनुमोदयेत् , अन्यथा प्रायश्चित्त, भाग् भवतीति ॥ १६॥ मूत्रम्-जे भिक्खु पिप्पलगस्म उत्तरकरण अन्नउत्थिएण वा गारथिएण वा करेइ करेंतं वा साइज्जइ ॥ सू० १७॥ छाया- यो भिक्षुः पिप्पलकस्य उद्धरकरणमन्यवृथिकेन चा गृहस्थेन वा करोति पुर्वन्तं वा स्वदने ।। नृ० १७ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy