________________
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १४- १७
अकुशलप्रतिसेवना ९
स्थूलवंशादिविविधवनस्पतिमिर्मितम् । एतेषामन्यतमेन यो भिक्षुः स्वयं शिक्ककं करोति, अथवा - शाक्यभिक्षुकादिभिरन्यतीर्थिकेन गृहस्थश्रावकादिना या कारयति, अथवा कुर्वन्तं तमनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नुवन् प्रायश्चित्तभागी भवति ॥ सू० १४ ॥
सूत्रम् — जे भिक्खू सोत्तियं वा रज्जुयं वा चिलमिलिं वा अण्णउत्थिएण वा गारत्थिएण वा कारेइ करेंतें वा साइज्जइ ॥ सू० १५ ॥
छाया- - यो भिक्षुः सौत्रिकां वा रज्जुकां वा चिलमिलि वा अन्ययूथिकेन वा गृहस्थेन वा कारयति कुर्वन्तं वा स्वदते ॥ सू० १५ ॥
।
चूर्णी - 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः श्रमण: 'सोत्तियं वा' सौत्रिकां वा - सूत्रभवां वा 'रज्जुयं वा' रज्जुकीं वा रज्जुः 'डोरी' लोकप्रसिद्धा तया शणकादिरज्जुभिर्वा निर्मिता ताम् 'चिलिमिलिं वा' चिलिमिलिकां वा तत्र चिलमिलिका - आहारकरणाय - शयनाय वा कल्पिता वस्त्रादिमयीजवनिका 'पडदा' इति लोकप्रसिद्धा ताम् 'अन्न उत्थिएण वा' अन्ययूथिकेन अन्यतीर्थिकेन वा 'गारत्थिएण वा' गृहस्थेन कलत्रादिपरिवारपरिवृतश्राचकेण वा 'कारे ' कारयति - स्वयं निर्माति अन्यद्वारेण वा निर्मापयति । 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते - अनुमोदते, कुर्वतोऽनुमोदनां करोति स श्रमणो लभते प्रायश्चित्तम् ।
भाष्यम् - सुत्त रज्जुनक्केहिं च दंडकडगेहिं तहा |
चिलिमिली खु पंचहा भिक्खुहिं करणिज्जा नो ॥ ॥
छाया - सूत्ररज्जुवल्कलैश्च दण्डः कटकैस्तथा ।
चिलमिली खलु पंचधा भिक्षुभिः क्रियमाणा नो ॥ ॥
अवचूरि : - 'मुत्तरज्जु' इत्यादि । चिलमिली शयनाहारादिकरणाय निर्मिता गृहप्रतिरूपिका जवनिका, एतादृशी चिलमिली पंचधा - पंचभिर्भेदैर्विभिन्नाः । सा साधुभिर्न करणीया तत्र पंचप्रकारान् भेदान् दर्शयति- 'सुत्ते ' इत्यादि । सूत्रमयी चिलमिली प्रथमा १, तत्र सूत्रेण - कार्पासिकेन- तदन्येन वा मेषादिकेशनिर्मितेन सूत्रेण वा या कृता सा सूत्रमयी चिलमिली १ । रज्जुमयी - रज्जुनिर्मिता "दोरी" ति प्रसिद्धा द्वितीया २ । 'वक्के' ति - वल्कलमयी, वल्कलं वृक्षत्वक् तया निर्मिता तृतीया ३, वंशो दंडादिः कटकमयीजवनिका ताभ्यां वंशकटकादिभ्यां चतुर्थी पंचमी च, एषा पञ्चप्रकारा चिलमिली साधुभिर्न कार्या ॥ सू० १५ ॥
२