________________
निशीथ सूत्रे द्विप्रकारको भवति, एको वसति संवद्धो द्वितीयस्तदितरः, वसत्यसंबद्धः । पुनश्च वसति संबद्धो जलप्रवाहो वक्ष्यमाणप्रभेदतस्त्रिविधः त्रिप्रकारको भवति । अर्थात्-वर्षासमये वा-उदकवीणिका क्रियते सा द्विविधा वमतिसंबद्धा तदितरा च । तत्र वसतिसंवद्धा त्रिविधा भवति, उपरि संबद्धावसतिमभ्यसंवद्धा नीचैः संवद्वा च, तत्र याऽसौ वसतिसंवद्धा-वाह्या सा नियमतः परिगलनरूपा। याऽसावन्त संबद्धाः-सा भूमौ निपतति, याऽसौ वसतिसंबद्धा-उपरिसम्बद्धा सा हर्म्यतले छिद्रादिद्वारा वर्षासंबन्धिजलमुपाश्रये प्रविशति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू सिक्कगं वा सिक्कणंतगं वा अण्ण उत्थिकेण वा गारथिएण वा कारेइ करत वा साइज्जइ ॥ सू०१४॥
छाया-यो भिक्षुः शिषकं वा शिक्कांतकं वा अन्ययूथिकेन वा गृहस्थेन घा कारयति कुर्वन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी-जे भिक्खू सिक्कगं वा' इति । 'जे भिक्खू' यो भिक्षुः निरवद्यमिक्षणशीलः, 'सिक्कगं वा सिक्कणंतग वा' शिक्कं वा शिक्कांतकं वा, तत्र शिक्कं “सीक" इति लोकप्रसिद्धम् । अथवा-यादृशो हि परिव्राजकस्य भवति भिक्षान्नस्थापनाय मूषक-मार्जारादिभ्यो भिक्षान्नस्य रक्षणाय संकेतितपात्रविशेषः । तथा-शिक्कान्तरं शिक्कस्य पिधानं तदाच्छादकं वा, 'अन्न उत्थिएण वा गारथिएण वा' अन्ययूथिकेनाऽन्यतीर्थिकेन शाक्यभिक्षुकादिना गृहस्थेन केनचित् श्रावकादिना वा 'करेइ' कारयति-स्वयं करोति, अथवा अन्यद्वारा कारयति, 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते-अनुमोदनं करोति, स साधुः प्रायश्चित्तस्य मागी भवतीति ।। सू० १४ ॥
अत्राह भाष्यकारभाष्यम्-सिक्कगं दुविहं वृत्तं तसथावरनिम्मियं ।
पढमं अंडजाजायं वीयं य विविहं मयं ॥॥ छाया-शिक्कक द्विविधं प्रोक्तं त्रसस्थावरनिर्मितम् ।
प्रथममण्डजाज्जातं द्वितीयं च विविधं मतम् ।। ।। अवचूरिः-'सिक्कगं दुविह' इत्यादि । साधुभिरनिप्पाचं शिक्ककं द्विविधं द्विप्रकारक भवति । त्रसस्थावरनिर्मितम्-त्रसकायजीवदेहेन संपादितम्, तथा-स्थावरकायजीवदेहेन निर्मित संपादितम् । तत्र द्विविधशिक्ककमध्ये प्रथमम्-अंडजात्-अंडज-मयूर-हंसादिजीवपक्षासंपादितम् । अंडजदेहात्-वालयदेहात् पट्टकोशिकादिजीवविओपात् स्नायुतो वा जायमानम् । द्वितीय स्थावरजीवदेहनिर्मितन्तु विविधम् अनेकप्रकारकं भवति । तथाहि-कार्पास-नारिकेल-मुख्न-दर्भ