SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ चूर्णी भाष्यावचूरी टीका० उ० १ सू० १२-१४ अकुशलप्रतिसेवना ७ सूत्रम् — जे भिक्खू पदमग्गं वा संकमं वा अवलंबणं वा अण्णउत्थि - एण वा गारत्थिएण वा कारेइ कारंतं वा साइज्जइ ॥ सू० १२ ॥ छाया -यो भिक्षुः पदमार्ग वा संक्रमं वा अवलम्बनं वा अन्यतीर्थिकेन वा गृहस्थेन वा कारयति कारयन्तं वा स्वदते ॥ सू० १२ ॥ चूर्णी - 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'पदमग्गं वा' पदमार्ग वा पदस्थानमार्गं वा 'संकर्म वा' संक्रमं वा - जलपङ्काद्युल्लङ्घनार्थं पाषाणादिस्थापनम् 'अवलम्बनं वा' - यदवलम्ब्य ऊर्ध्वमारुत्यते, तद्वस्तु सोपानादिकम् 'अण्णउत्थि एण वा' अन्यतीर्थिकेन वा शाक्यादिना 'गारत्थि एणवा' गृहस्थेन वा 'कारेइ' कारयति 'कारंतं वा' कारयन्तं वा 'साइज्जइ ' स्वदते अनुमोदते स दोषभाग्भवतीति ॥ सू० १२ ॥ सूत्रम् — जे भिक्खू दगवीणियं वा अण्णउत्थिए हिं वा गारत्थि एहिं वा कारे करें वा साइज्जइ ॥ सू० १३ ॥ छाया -यो भिक्षुः उदकवीणिकाम्-अन्यतीर्थिकैर्वा गृहस्थैर्वा कारयति कारयन्तं वा स्वदते ॥ सू० १३ ॥ चूर्णी - 'जे भिक्खू दगवीणियं इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः निरवद्य भिक्षणशीलः श्रमणः । 'दगवीणियं' उदकवीणिकाम्, तत्र - उदकस्य - जलस्य वीणिका वाहः प्रणाली, जलनालिकेति लोकप्रसिद्धा वर्षादिजलनिर्गमनाय तामुदकवीणिकाम् । 'अन्न उत्थि - एहिं वा' अन्ययूथिकैः वा अथवा 'गारत्थि एहिं वा' गृहस्थैः श्रावकैर्वा 'कारे ' कारयति । अथवा 'कारेंतं वा साइज्जइ' कारयन्तं जनप्रवाहं स्वदते - अनुमोदते । अर्थात् - यः साधुः जल प्रणाली स्वयमेव करोति अथवा श्रावकादिद्वारा कारयति अथवा - जलस्य निःसारणार्थे मार्ग कुर्वन्तं अन्यमनुमोदते यथा सम्यक्कृतं भवतेत्यादि स साधुः प्रायश्चित्तभाग् भवति, जलप्रवाहकरणे एकेन्द्रियादि षड्जीवानामुपमर्दस्याऽवश्यं संभवात् इति ॥ सू० १३ ॥ भाष्यम् - नालिया दुविहा बुत्ता, संबद्धा च तयरा । संबद्धा तिवा ज्जा, वक्खमाणप भेयओ ॥१॥ छाया -- नालिकाद्विविधा प्रोक्ता संबद्धा च तथेतरा । संबद्धा त्रिविधा ज्ञेया वक्ष्यमाणप्रभेदतः ||१|| अवचूरी - 'जलनालिया' इति । 'नालिया' नालिका जटनालिका, यस्य जलप्रवाहस्य करणेऽन्यद्वारा वा करणे, तदनुमोदने साधूनां प्रायश्चित्त कथितम् । जलप्रवाहो द्विविधः
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy