________________
निशीथसूत्रे
mar
चूणीं--'जे भिक्खू अङ्गादाणं जिग्घइ' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाण' अगादानम् जिग्घइ जिब्रति नासिकया तद्गन्धं गृह्णाति, यद्वा हस्तेन मर्दयित्वा हस्ताऽऽगतं गन्धं जिप्रति 'जिग्धंत' जिवन्तं वा 'साइज्जई' स्वदते तनुमोदते स चारित्रदोपभाग्भवति । अत्र दृष्टान्तमाद
यथा कोऽपि घातकगन्धपदार्थ नासिकया जिप्रति तस्य तद्गन्धेन प्राणवियोजनं भवति । यद्वा यथा कश्चित् राजकुमारः वैयेन प्रतिषिद्धोऽपि आनं जिध्रति आनं जिघ्रतस्तस्य 'आम्र' नामको व्याधिः समुत्पन्नः गन्धप्रियेण कुमारेण गन्धं जिघ्रता स्वात्मा जीविताद् भ्रंशितः। तथैवाऽङ्गादानं जिवन्मुनिर्मोहोदयेन स्वात्मानं सयमजीविताद् भ्रंशयति । सू० ८॥
सूत्रम्-जे भिक्खू अंगादाणं अण्णयसि अचित्तंसि सोयंसि अणुप्पवेसित्ता सुक्कपाग्गले णिग्याएइ णिग्घायंतं वा साइज्जइ ॥ सू० ९॥
छाया-- यो भिक्षुः अङ्गादानम् अन्यतरस्मिन् अचित्ते स्नोतसि अनुप्रवेश्य शुक्रपुद्गलान् निर्घातयति निर्घातयन्तं वा स्वदते ॥ सू० ९॥
चूर्णी -'जे भिक्खू अंगादाणं अण्णयरंसि' इति । 'जे भिक्खू यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'अण्णयरंसि' अन्यतरस्मिन् बहूनां मध्ये एकस्मिन् कस्मिश्चित् 'अचित्तंसि' अचित्ते 'सोयसि' स्रोतसि-वळ्यादिच्छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य 'मुक्कपोग्गले' शुक्रपुद्गलान् 'णिग्याएइ' निर्धातयति-विनाशयति साधुनिःसारयति, साध्वी च स्वयोनौ कदलीफलादि पवेश्य रजःपुद्गलान् निस्मारयति 'णिग्यायंतं वा निर्घायन्तं वा 'साइज्जई' स्वदते स सा च दोपभाग् भवति आत्मविराधनावान् भवति साध्वी दोपभागिनी आत्मविराधनावती च भवति शुक्ररजाक्षयेण त्रियते इत्यर्थः एवं सर्वत्र साध्वीविषयेऽपि संयोज्यम् ।। सू० ९॥
सूत्रम्-जे भिक्खू सचित्तं गंध जिग्घइ, जिग्त वा साइज्जइ ॥१०॥
सूत्रम्-जे मिक्खू सचित्तपइट्ठियं गंध जिग्घइ जिग्छतं वा साइज्जइ ॥ सू० ११॥
छाया-यो भिक्षुः सचित्तं गन्धं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू० १० ॥ यो मिक्षुः सचित्तप्रतिष्ठित गन्धं जिति जिघन्तं वा स्वदते ।। सू० ११ ॥
चूर्णी-'जे भिक्ख सचित्तं गंध' इति । स्पष्टम् । नवरम्-सचित्तं गन्धं पुष्पफलाद्यातिम् । उपरक्षणादचित्तं गन्धं चन्दनाटिकमपि जिघ्रति, सचित्तप्रतिष्ठितमिति सचित्तजलघटायुपरि स्थापितं सचित्तमचित्तं वा गन्धं जिनति, स प्रायश्चित्तभाग भवति ॥ सू० १०-११ ॥