SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ चूणी-भाष्यावचूरी टीका० उ० १ सू० ६-११ अंकुशलप्रतिसेवना ५ अत्र दृष्टान्तमाह-यथा खड्गादिशस्त्रस्य मर्दनेन हस्तादेश्छेदो भवति तथैव गुप्तेन्द्रिय मर्दनेन संयमस्य छेदो भवतीति ॥ सू० ५॥ सूत्रम्-जे भिक्खू अंगादाणं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेज्ज वा पधोवेज्ज वा उच्छोलंतं वा पधावंतं वा साइज्जइ ॥६॥ छाया-यो भिक्षुः अङ्गादानं शीतोदकविकृतेन वा उष्णोदकविकृतेन वा उत्क्षालयति वा प्रधावति वा, उत्क्षालयन्तं वा प्रधावन्तं वा स्वदते ॥ सू० ६॥ चूर्णी-'जे भिक्खू सीओदगक्यिडेण वा' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'सीओदगवियडेण वा' शीतोदक विकृतेन वा विकृतम् विकारप्राप्तम् अचित्तं सत् शीतोदकं शीतोदकविकृत्तम् अचित्तशीतजलं तेन, 'उसिणोदगवियडेण वा' उष्णोदकविकृतेन वा विकृतम् अग्निशस्त्रेणाऽचित्तीकृतं यत् उष्णोदकम् उष्णजलम् उष्णोदकविकृतं तेन, 'उच्छोलेज्ज वा' उत्क्षालयति वा सामान्येन तस्य क्षालनं करोति 'पधोवेज्ज वा प्रधावति वा प्रकर्षेण धावति क्षालयति 'उच्छोलतं वा' उत्क्षालयन्तं वा 'पधोवेतं वा' प्रधावन्तं वा प्रकर्षण तस्य क्षालनं कुर्वन्तं वा 'साइज्जई' स्वदते अनुमोदते स दोषभाग भवतीति । अत्र दृष्टान्तमाह-यथा एकस्य कस्यचित्पुरुषस्य रोगवशात् नेत्रं नष्टम् तदा स वैधेन चिकित्सां कारयति । स वैद्यः औषधिमिश्रितजलेन नेत्रं घृष्ट्वा धृष्ट्वा वारं वारं प्रक्षालयति एवं करणेन नेत्रपीडा दुरघिसह्या समुत्पन्ना, तया स मरणमासादितवान् । एवमेव मुनेरङ्गादानस्य प्रक्षालनेन मोहोदयात् चारित्रजीवितं विनश्यतीति । सू०६॥ सूत्रम्-जे भिक्खू अंगादाण णिच्छलेइ णिच्छलतं वा साइज्जइ ॥७॥ छाया यो भिक्षुः अङ्गादानं निश्छादयति निश्छादयन्तं वा स्वदते ॥सू०७॥ चूर्णी--'जे भिक्खू अंगादाणं णिच्छलेइ' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'णिच्छलेइ' निश्छादयति निरावृणोति पुरुषचिह्नत्वचमपाकरोति 'निश्छालेत' निश्छादयन्तम् ‘साइज्जइ' स्वदते अनुमोदते स दोषभाग्भवति । अत्र दृष्टान्तमाह-यथा कोऽपि पुरुषः सुखसुप्ताजगरसर्पस्य मुखं स्फाटयति समसौ सर्पः गिलति तथा एवं कर्तुमुनेश्चारित्रं नश्यति ॥ सू० ७॥ सूत्रम्-जे भिक्खू अंगादाणं जिग्घइ जिग्धंतं वा साइज्जइ ॥सू०८॥ छाया-यो भिक्षुः अङ्गादानं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू०८ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy