SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम्-जे भिक्खू अंगादाणं तेल्लेण वा घएण वा वसाए वा णवजीएण वा अभंगेज्ज वा मक्खेज्ज वा, अभंगेंतं वा मक्वंतं वा साइज्जइ॥ सू०४॥ छाया-यो भिक्षुः अगादानं तैलेन वा घृतेन वा वसया वा नवनीतेन वा अभ्ययति म्रक्षयति, अभ्यंगयन्तं वा ब्रक्षयन्तं वा स्वदते ॥ सू० ४ ॥ चूर्णी-जे भिक्खू तेल्लेण वा' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानं पूर्वोक्कलक्षणम् 'तेल्लेण वा' तैलेन वा तिलादितैलेन वा 'घएण वा घृतेन वा 'वसाए वा' वसया स्निग्धपदार्थनातेन 'णवणीएण वा' नवनीतेन 'मक्खन' इति प्रसिद्धन 'अभंगेज्ज वा' अभ्यङ्गयति मर्दयति 'मक्खेज वा' म्रक्षयति. विशेषेण मर्दयति 'अभंगतं वा' अभ्यङ्गयन्तं वा 'मक्खेंतं वा' प्रक्षयन्तं 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग् भवतीति । अत्र दृष्टान्तमाह- यथा प्रज्वलिताग्नौ घृतादिना परिपिश्चिते सति असौ प्रज्वलितोऽग्निर्मूहादिकं प्रज्वलयति तथैव अङ्गादान तैलादिना मर्दकस्य चारित्रं विध्वंसयतीति भावः । सू० ४ ॥ सूत्रम्-जे भिक्खू अंगादाणं कक्केण वा लोहेण वा पउमचुण्णेण वा पहाणेण वा सिणाणेण वा चुण्णेहिं वा उब्वट्टेइ परिवट्टेइ उब्वटुंतं वा परिवटुंतं वा साइज्जइ ॥ सू० ५॥ छाया-यो भिक्षुः अङ्गादानं कल्केन वा लोधेण वा पद्मचूर्णेन वा स्नानेन वा स्नपनेन वा चूणैर्वा वर्णैर्वा उद्वर्तयति, परिवर्त्तयति उद्वर्तयन्त वा परिवर्तयन्तं वा स्वदते ॥ सू०५॥ चूर्णी-'जे भिक्खू अंगादाणं कक्केण वा' इति । 'जे भिक्खू यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'कक्केण वा, कल्केन वा' कल्कोऽनेकसुगन्धिद्रव्यनिष्पन्न उद्वर्तनविशेषः, तेन, 'लोद्देण वा' लोधेण वा सुगन्धद्रव्यविशेपेण 'पउमचुण्णेण वा' पद्मचूर्णेन वा सुगन्धिकमलपुष्पचूर्णेन वा 'पहाणेण वा' स्नानेन वा सामान्यस्नानेन वा 'सिणाणेण वा' स्नपनेन वा विशेषस्नानेन वा मुगन्धाssमोदभरितजलस्नानेनेत्यर्थः । 'चुण्णेहि वा' चूर्णैर्वा यवादिपिष्टैः 'वण्णेहिं वा' वर्गा अवीरादिचूर्णविशेषः, 'उबट्टेइ' उद्वर्त्तयति सामान्यतो मर्दयति 'परिवइ' परिवर्तयति विशेषतो मर्द यति, 'उच्चतं वा' उद्वर्तयन्तं वा 'परिवदृतं वा' परिवर्तयन्तं वा 'साइज्जई' स्वदते अनुमोदने स प्रायश्चित्ताहों भवतीति । सू० ५ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy