________________
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० २३-२८ - अंकुंशलप्रतिसेवना १३
सूत्रम्-जे भिक्खू अणट्ठयाए णहच्छेयणं जायइ जायंतं वा साइज्जइ ॥ सू० २३ ॥
छाया-यो भिक्षु अनर्थतया नखच्छेदन कं याचते, याचमानं वा स्वदते ॥ सू० २३ ।।
चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू यो भिक्षुः-श्रमणः अणट्टयाए' अनर्थतया प्रयोजनं विनैव 'णहच्लेयणगं' नखच्छेदनकम् नखच्छेदनिकाम् - "नहरनी" ति लोकप्रसिद्धाम् 'जायई' याचते अत्यतीर्थिकेभ्यः श्रावकेभ्यो वा 'जायंत वा साइज्जई' याचमानमन्यं स्वदतेअनुमोदते स आज्ञाभंगानवस्थात्मविराधनासंयमविराधनादिदोषैः प्रायश्चित्तभाग् भवति ॥ सू० २३॥
सूत्रम्-जे भिक्खू अविहीए सूई जायइ, जायंतं वा साइज्जइ ॥२४॥ छाया यो भिक्षुः अविधिना सूची याचते याचमानं वा स्वदते ॥ सू० २४ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'अविहिए' अविधिना 'सूई जायई' सूची याचते, तत्र विधि:--स्वसमयप्रसिद्धो नियमः तं विना । अर्थात् मह्यं कार्यमुपस्थितं सीवनस्याऽतः सूची मे देहि, कार्यं कृत्वा पुनरावर्तयिष्यामि-इति कथनमन्तरेणैव सूच्यायाचनम् अविधिना याचितं भवति । 'जायंतं वा साइज्जई' याचमानं वा स्वदते । अर्थात्यः श्रमणः विधिमन्तरेणैव याचनां करोति-यश्च याचमानं तमनुमोदते, सोऽपि प्रायश्चित्तभाग भवतीति ॥ २४ ॥ भाष्यम्-काहं वत्थस्स संहाणं तिकिच्चा जे उजायइ ।
करेइ अन्न संहाणं एसोऽविही उदाहिओ ॥ छाया-करिष्ये वस्त्रस्य संधानमिति कृत्वा यस्तु याचते ।
करोत्यन्यस्य संधानमेषोऽविधिरुदाहृतः ॥ अवचूरिः-'काहं इत्यादि । कोऽपि साधुः कस्यचित् श्रावकादेर्गृहं गतवान् तत्र गत्वा सूची याचमानो वदति-भो देवानुप्रिय ! श्रावकः । अहं वस्त्रस्य प्रावरणस्य संधानं करिष्ये इति कृत्वा-कथयित्वा सूची याचते । किंतु तया प्रावरणार्थ याच्यमानया सूच्या चोलपट्टादिकस्य संधानं करोति । एष अविधिरुदाहृतः कथितः । अनेन विधिना यो याचते याचमान वा स्वदते अनुमोदते, स भिक्षुर्दोषभागिति । एवं पिप्पलकादिसूत्रेष्वपि बोद्धयम् ।। सू० २४ ॥
सूत्रम्-जे भिक्खू अविहीए पिप्पलगं जायइ, जायंतं वा साइज्जइ ॥ सू० २५॥