________________
पूर्णिभाष्यावरिः उ०१६ सू० ४०-४१
आचार्याधविनयप्रमाणाधिकोपधिनिषेधः ३७७
छाया-यो भिक्षुराचार्योपाध्यायानां शय्यासस्तारकं पादेन संघट्य हस्तेन अननुशाप्य प्रधारयन् गच्छति गच्छन्तं वा स्वदते ॥ सू० ४०॥
चूर्णी 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'आयरियउवज्झायाणं' आचार्योपाध्यायानाम्, तत्र आचार्यों-गच्छनायकः, उपाध्यायः, सूत्रार्थयोरध्यापकः, तेषामाचार्योपाध्यायानगम् उपलक्षणात् पर्यायज्येष्ठानां च साधूनाम् 'सेज्जासंथारग' शय्यासंस्तारकम्,तत्र शय्या-शरीरप्रमाणा संस्तारकम्-सार्द्धद्वयहस्तप्रमाणकम् उपलक्षणात् आहारोपधिदेहपीठफलकादिकं च पाएणं संघहेत्ता' पादेन-चरणेन संघटय शय्यासंस्तारकादीन् प्रमादवशात् पादेन संस्पृश्य, यदा गमनागमनसमयेऽनाभोगवशात् आचार्योपाध्यायादीनां शय्यासंस्तारकादीनि चरणेन सस्पृष्टानि भवन्ति तदा 'हत्येणं अणणुण्णइत्ता' हस्तेन अननुज्ञाप्य-हस्तेन तत् स्पृष्ट्वा स्वदोषप्रकटनरूपामाज्ञामगृहीत्वा उपलक्षणात शल्यसंस्तारकमप्रमाय वन्दनामकृत्वा मिथ्यादुष्कृतं चादत्वा 'पधारेमाणे गच्छइ' प्रधारयन् प्रस्थानं कुर्वन् गच्छति-चलन्नेव चलति, अयं भावः-यदि आचार्यादीनामासनादिपु अनुपयोगात् पादस्पर्शो भवेत्तदा तद् हस्तेन स्पृष्टा मस्तकं स्पृशन् वदेच्च'हे गुरो ! मयाऽपराधः कृत इति क्षमस्व, न पुनरेवमनुपयोगेन चलिष्यामि' इत्यादिरूपेण क्षमायाचनं कर्तव्यमेवेति । तथा-'गच्छंतं वा साइज्जई' आचार्यादीनामासनं चरणेन संस्पृश्य क्षमायाचनमकृत्वा मिध्यादुष्कृतमदत्त्वा च गच्छन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।।
अत्राह भाष्यकारःभाष्यम्- 'सेज्जासथारदेहाई, संघट्टे गुरुणो पया।
खमावणमकाऊण, गच्छंतो दोसभा भवे ॥ छाया- शय्यासंस्तारदेहादि संघट्टेत गुरोः पदात् ।
क्षमापनमकृत्वा गच्छन् दोषभाग् भवेत् ॥ अवचूरिः- गुरोः-आचार्योपाध्ययपर्यायज्जेष्ठरूपस्य शय्यासंस्तारकदेहादि, तत्र शय्या-शरीरप्रमाणा, संस्तारकं सार्द्धद्वयहस्तपमाणम्, देहं करचरणादिकम् आदित-आहारोपध्यादींश्च प्रमादवशेन पदात् यदि संघटेत चरणेन स्पृशेत् यो भिक्षुः श्रमणः श्रमणी वा तदा-गिथ्यादुष्कृतमदत्त्वा क्षमापनमकृन्वैव गच्छेत् तथा एवं गच्छन्तं श्रमणान्तरं योऽनुमोदते स दोषभाग् भवेत् प्रायश्चित्तभागी भवेदित्यर्थः । अथ आचार्योपाध्यायादिसम्बन्धिनां शय्यासंस्ता कादीनां कथं संघट्टन भवति ? तत्रोच्यते-पाश्रये प्रविशतो निष्कामतो मार्गे चलतो वा, उपविशतो गुरोः पादसंबाहनादिकं कुर्वाणस्य वा पादेन संघट्टनं संभवति, एवं शयनसमये पादप्रसारणादिकरणे च संघट्टनस्य संभवो भवति तत्र यदि आचार्योपाध्यायादिसम्बन्धिशय्यासंस्तारकदेहादीनां पादेन शरारेण च संघट्टन