________________
३७८
निशीथसूत्रे कदाचित् भ्रमात् प्रमादाद्वा जायेत तदा अवश्यमेव क्षमापनादिकं कुर्यात, अकरणे च साधुः प्रायश्चित्तभाग् भवेदिति ॥ सू० ४० ॥
सूत्रम्-जे भिक्खू पमाणाइरित्तं वा गणणाइरित्तं वा उवहिं धरेइ धरंतं वा साइज्जइ ॥ सू० ४१ ॥
छाया-यो भिक्षुः प्रमाणातिरिक्तं वा गणनातिरिक्तं वा उपधि धरति धरन्तं वा स्वदते ॥ सू० ४१ ॥
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'पमाणाइरित्तं वा प्रमाणातिरिक्तं वा यस्य यादृशं प्रमाणम् एकद्वयादिस्तत् प्रमाणं यद्भगपताऽऽज्ञप्तं ततोऽतिरिक्तम् , तथा 'गणणाइरित्तं वा' गणनातिरिक्तं वा गणनया-संख्ययाऽघिकम् । तत्र प्रमाणातिरिक्तं वस्त्रम्-यस्य वस्त्रस्य यावकं प्रमाणं हस्तादिमापनरूपं शास्ने प्रतिपादितं तस्मादधिक प्रमाणातिरिक्त वस्त्र कथ्यते तथाहि--"कप्पइ निग्गंथाणं तओ संघाडीओ धरित्तए वा परितरित्तए वा । कप्पइ निग्गंधीणं चत्तारि संघाडीओ धरित्तए वा परिहरितए वा। कप्पइ निग्गंथाणं बावत्तरिहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा। कप्पइ निग्गंथीणं छण्णउहत्थपरिमियं वत्थं धरित्तए वा परिहरित्तए वा"- कल्पते निम्रन्थानां तिस्रः संघाटीः धतु वा परिहत्तं वा । कल्पते निम्रन्थीनां चतस्रः संघाटीः धतुं वा परिहतु वा ? कल्पते निर्ग्रन्थानां द्वासप्ततिहस्तपरिमितं.वस्त्रं धतुं वा परिहर्तुं वा । कल्पते निर्ग्रन्थीनां षण्णवतिहस्तपरिमितं वस्त्रं धत्तुं वा परिहत्तु वा, इति च्छाया । एवं गणनातिरिक्तम् , गणना वस्त्रविषया पात्रविषयेति द्विविधा भवति, तत्र वस्त्र विषया गणना पूर्वमुक्तव, पाविषया गणना प्रोच्यते, सा च गणना एकद्वयादिसंख्या पात्राणामेकद्वयादिरूपेण वा संख्या शास्त्रे प्रतिपादिता तदतिरिक्त गणनातिरिक्तं कथ्यने, तथाहि-"कप्पड निगंयाण तिन्नि पायई चउत्थं उंदगं धारित्तए । कप्पइ निग्गयोणं चत्तारि पायाई पचमं उंदगं धारित्तए ॥” इति शास्त्रोक्तगणनातोऽधिकम् ‘उवर्हि' उपधिम्-वस्त्रपात्रादिकं यो भिक्षुः 'घरेइ' स्वयं धर्रात परद्वारा वा धारयति तथा -'धरतंवा साइज्जई' धरन्तं प्रमाणगणनातिरिक्तमुपधि धारयन्तं वा श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चि त्तभागी भवति ।। सू० ४१ ।।
सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए जीवपइट्ठिए सअंडे सपाणे सवीए सहरिए सओसे सउदए सउत्तिंगपणगदगमट्टियमक्कडासंताणगंसि दुब्बद्धे दुण्णिक्खित्ते अणिक्कंपे चलाचले उच्चारपासवणं परिहुवेइ परिहवेतं वा साइज्जइ ।। सू० ४२॥