________________
३७६
निशीथसूत्र 'गारस्थिएहिं वा सर्टि' गृहस्थैर्वा सार्द्धम् एकस्मिन् भाजने एकपड्क्तौ वा समुपविश्याशनादिचतुर्विधमाहारजातम् 'भुंजई' मुक्ते-हरति आहारयति वा तथा 'भुंजतं वा साइज्जई' भुञ्जानं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥३८॥
सूत्रम्-जे भिक्खू अण्णउत्थिएहिं वा गारथिएहिं वा सद्धिं आवेढिय परिवेढिय भुंजइ भुंजतं वा साइज्जइ ॥ सू० ३९॥ ___छाया-यो भिक्षुरन्ययूथिकैर्वा गृहस्थैर्वा सार्द्धमावेष्टय परिवेष्टय भुङ्के भुञ्जान वा स्वदते ॥सू० ३९ ।।
चूर्णी-जे भिक्खू इत्यादि । जे भिक्खू' यः कश्चिद्भिक्षः श्रमणः श्रमणी वा 'अण्णउथिएहि वा अन्यतीर्थिकैर्वा तापसादिभिः 'गारथिएहि वा सद्धि' गृहस्थैर्वा सार्द्धम् 'आवेदिय'
आवेष्ट्य तत्र आवेष्टनमेकद्वित्रिदिशासु परतीथिकादिभिरावेष्टितो भूत्वा तथा-'परिवेढिय' परिवेष्टय, तत्र परिवेष्टनं सर्वदिसंबंधि दिशासु विदिसासु वा स्थितैः परतीर्थिकादिभिः परिवेष्टितो मूल्वा अशनपानादिकम् 'भुंजई भुक्ते भोजनं करोति कारयति वा तथा 'भुंजत वा साइज्जइ' भुञ्जानं वा अन्यतीथिंकैरावेष्टितः परिवेष्टितो भूत्वा अशनादिकं भुञ्जानं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति अन्यतीर्थिकादीनां समक्षमाहारकरणस्य निषिद्धत्वात् ।
अत्राह भाष्यकार:भाष्यम्- अण्णतिथिगिहत्थेहि, सद्धिं संपरिवेढिओ ।
__ आहारं भुंजई जो उ, आणाभंगाइ पावइ । छाया-अन्यतीर्थिगृहस्थैः, साई परिवेष्टितः ।
आहारं भुक्ते यस्तु, आशाभकादि प्राप्नोति ॥ अवचूरि:-यो हि श्रमणः श्रमणी वा अन्यतीथिकैः तापसादिभिः गृहस्थैः पूर्वपरिचितैरपरिचितै. र्वा, पूर्वसस्तुतैः पश्चात्संस्तुतैर्वा, तत्र पूर्वसंस्तुता मातापितृभगिनीभ्रात्रादयः, गृहस्थावस्थापरिचिता अन्ये वा, पश्चातसंस्तुताः श्वशुरश्वत्रश्यालकादयः साध्वस्थापरिचिता वा, तैः सार्द्धम् संपरिवेष्टितः आवेष्टितः परिवेष्टितो वा. भूत्वा यः कश्चित् श्रमणो मोहादिवशात् अशनादिकं भुक्ते तथा भुञ्जानं श्रणान्तरमनुमोदते स आज्ञाभङ्गादिकान् दोषान् प्राप्नोति तस्मात् पभिः सह न भोक्तव्यम्, न वा भुञ्जानमनुमोदयेत् प्रवचनहीलनासंभवादिति ॥ सू० ३९॥
सूत्रम्-जे भिक्खू आयरिय उवज्झायाणं सेज्जासंथारगं पारणं संघट्टित्ता हत्थेणं अणणुण्णइत्ता पधारेमाणे गच्छइ गच्छंतं वा साइज्जइ। सू०४०॥