________________
पूर्णिमा यावद्भिः उ० १६ सू० ३७-३९ अन्यतीर्थिकादिसहभोजननिषेधः ३७५
सूत्रम्--जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा वेहासे णिक्खिवइ णिक्विवंतं वा साइज्जइ ॥सू०३७॥
छाया-यो भिक्षुरशनं वा पानं वा खाद्य वा स्वाघ वा विहायसि निक्षिपति निक्षिपन्तं वा स्वदते ॥ सू० ३० ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'साइमं वा' खाद्य वा 'साइमं वा स्वायं चा 'वेहासे' विहायमि-आकाशे नागदन्ते सिक्कादौ पृथिव्यसंबद्धप्रदेशादौ 'णिक्खिवई' निक्षिपति-व्यवस्थापयति नागदन्तादौ आलम्ब्यान्यवेलायां भोजनार्थमाहारजातं व्यवस्थापयतीत्यर्थः, तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं चा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति, तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्ति, तत्र संयमविराधनेत्थम्-यदि पृथिव्यादौ साधुरशनादीनि निक्षेप्स्यति तदा तत्र घृतगुडादीनां गन्धमाघ्राय पिपीलिकादिलघुजन्तवः समागमिष्यन्ति, तेषां विराधनारूपा संयमविराधना भवति, तल्लवुजन्तुभक्षणार्थ तत्र गृहगोधिका मूषको वा समागमिष्यति । तद्भक्षणार्थ मार्जारो धाविष्यति, तं धावन्तं दृष्ट्वा कुक्कुरः समागमिष्यति, इत्येवं प्रकारेणापरापरजन्तूनां समागमनात् प्राणातिपातः स्यात्, एवं नागदन्तादौ स्थापने पात्रादिक पृथिव्यां पतिष्यति पतनाच्च भाजनभेदः षट्कायविराधनं च स्यात्, एवं प्रकारेणापि संयमविराधना प्रसज्येत । भात्मविराधनेत्थम् भूम्यादौ निक्षिप्तमशनादिकं गृहगोधिकया सर्पण वा आघातं भक्षितं वा स्यात् तस्याघ्राणनेनाऽशनादौ तन्मुखलालासंस्पृष्टं विषमपि संचरिष्यति, वृश्चिकादयो वा तत्र पतिष्यन्ति ततश्च तादृशविषसंस्पृष्टाऽशनादिभक्षणे कृते साधूनां मरणमपि स्यात् । यदि कदाचित् तादृशमशनादिकं पृथिव्यां परिष्ठापयिष्यति तदा तत्राहारलीभात् समागतकुक्कुरैः साधुर्दष्टोऽपि भवेत् तेन तत्रापि आत्मविराधना स्यात्, एवंप्रकारेणाऽऽऽमविराधना प्रसज्येत तस्मात् कारणात् श्रमणः श्रमणी वा पृथिवीसंस्तारकनागदन्तादौ अशनादिकमाहारजातं
न स्थापयेत् न वा परद्वारा तस्य स्थापनं कारयेत्, न वा पृथिव्यादिस्थाने संस्थापयन्तं श्रमणान्तरमनुमोदयेदिति ॥ स्० ३७ ॥
सूत्रम्--जे भिक्खू अण्णउत्थिएहिं वा गारथिएहि वा सद्धिं भुजा भुंजंतं वा साइज्जइ ॥ सू० ३८॥
छाया-भिक्षुरन्ययूथिकैर्वा गृहस्थैर्वा सार्द्धम् भुङ्क्ते भुन्जानं वा स्वदते ॥ सू० ३५॥
चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थिएहिं वा' अन्ययूथिकैर्वा, तत्रान्ययूथिका दर्शनान्तरीयाः पार्श्वस्थादयस्तापसादयश्च, तैरन्ययूथिकैः