SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ३७४ NAARI AAAAAAAAAAAK रोति तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायचित्तभागी भवति ॥ सू० ३३ ॥ सूत्रम् — जे भिक्खू दुगुंछियकुलेसु सज्झायं परियट्टेइ परियहतं वा साइज्जइ ॥ सू० ३४॥ छाया - -यो भिक्षुः जुगुप्सित कुलेषु स्वाध्यायं परिवर्तयति परिवर्तयन्तं वा स्वदते ३४ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चि दुर्भिक्षुः श्रमणः श्रमणी वा 'दुर्गाछियकुले' जुगुप्सितकुलेषु 'सज्झायं' स्वाध्यायम् सूत्रमर्थ वा 'परियदृइ' परिवर्तयतिसूत्रार्थतदुभयस्य पुनरावर्तनं करोति करयति वा तथा 'परियहृतं वा साइज्जइ' परिवर्तयन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागो भवति ॥ सू० ३४ ॥ सूत्रम् — जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढवीए णिक्खिवs निक्खिवतं वा साइज्जइ ॥ ३५ ॥ छाया -- यो भिक्षुः अशनं वा पानं वा खाद्यं स्वाद्यं वा पृथिव्यां निक्षिपति निक्षिपन्तं वा स्वदते ॥ सू० ३५ ॥ चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाद्यं वा 'पुटवीए' पृथिव्याम् 'णिक्खिव' निक्षिपति- आहारावशिष्टमशनादिकं पृथिव्यां स्थापयतीत्यर्थः तथा 'णिक्खितं वा साइज्जर' निक्षिपन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति पिपीलिकादिप्राण्युपमर्दनसंभवात् ॥ ३१ ॥ सूत्रम् -- जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा संथारए णिक्खिवs णिक्खिवंतं वा साइज्जइ ॥ सू० ३६ ॥ छाया - यो भिक्षुरशनं वा पानं वा खाद्यं वा स्वाद्य वा संस्तारके निक्षिपति निक्षिपन्तं वा स्वदते ॥ सु० ३६ ॥ 14 चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं' वा 'पाणं वा' पानं वा 'खाइमं वा' खायं वा 'साइमं वा' स्वायं वा 'संथारए' संस्तारके - आसने यत्र स्वपिति उपविशति वा तत्रैव आसने तमशनादिचतुर्विधमाहारजातं दर्भादितृणसंस्तारके वस्त्रसंस्तारके काष्ठपट्टकादी वा 'णिक्खिवइ' निक्षिपति -संस्थापयति तथा 'णिक्खिवतं वा साइज्जई' निक्षिपन्तं - स्थापयन्तं वा - श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३६ ॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy