________________
३७०
निशीथस्त्र
चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् व्युद्ग्रहव्युत्क्रन्तेभ्य इत्यर्थः सज्झायं' स्वाध्यायम्सूत्रार्थतदुभयरूपम् 'पडिच्छइ' प्रतीच्छति 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकार:'बुग्गहत्रुक्कंताणं, असणा आरम्भ जो य सज्झायं ।
देइ पडिच्छइ भिक्खू, आणाभंगाइ पावे ॥ छाया-व्युद्ग्रह व्युत्क्रान्तानां (व्युद्ग्रहव्युत्क्रान्तेभ्यः) अशनादारभ्य यश्च स्वाध्यायम् ।
ददाति प्रतीच्छति भिक्षुः, आशाभङ्गादि प्राप्नोति ।। अवचूरिः-यश्च भिक्षुः व्युद्ग्रहव्युत्क्रान्तानां अशनादारभ्य स्वाध्यायम्-अशनादिकं वस्त्रादिकं वसतिं ददाति प्रतीच्छति तत्र प्रविशति वा, तथा स्वाध्यायं च ददाति, तेषां सकाशात् स्वाध्यायं स्वीकरोति वा स आज्ञाभङ्गादिकं प्राप्नोतीति ।। सू० २२ ॥
सूत्रम्--जे भिक्खू विहं अणेगाहगमणिज्जं संति लाढे विहाराए संथरमाणेसु जणवएसु विहारखडियाए अभिसंधारेइ अभिसंधारेतं वा साइ. ज्जइ ॥ सू० २३ ॥ . छाया--यो भिक्षुर्वीथिमनेकाहगमनीयां सति लाढे विहाराय संस्त्रियमाणेषु जनपदेषु विहारप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २३ ॥
__ चूर्णी-'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विहं' वीथिम् कथंभूतां वीथिम् । तत्राह-'अणेगाह०' इत्यादि, 'अणेगाहगमणिज्ज' अनेकाहगमनीयाम् अनैकैरहोभिः-दिवसैः गमनीयाम्-गन्तुयोग्यामटवीरूपां विहारप्रतिज्ञया गन्तुमभिसेधारयति इत्यग्रेण सम्बन्धः । कथमित्याह-'संति लाढे' सति लाढे विद्यमानेऽन्यस्मिन् देशे यत्र 'विहाराए' विहाराय विहारनिमित्तम् तपोनियमसंयमस्वाध्यायाद्यर्थम् 'संथरमाणेसु' संस्त्रियमाणेषु-आहारोपधिवसत्यादिना सुलभेषु निर्वाहयोग्येषु 'जणवएसु' जनपदेषु सत्सु 'विहारवडियाए' विहारप्रतिज्ञयाविचरणभावनया 'अभिसंधारेइ' अभिसंधारयति-गन्तुं मनसि विचारयति, 'अभिसंधारें।' अनेकदिवसगमनीयामटवीं विहारविचारणां कुर्वन्तम् श्रमणान्तरम् 'साइज्जई' स्वदते अनुमोदते स प्रायश्चित्तभाग भवतीति । अयं भाव'-कथमनेकदिवसगमनीयमार्गे गमननिषेधः कृतस्तत्राहयत्र देशे गम्यमाने संयमात्मविराधनादयोऽनेके दोषाः प्रसज्येयुः, तपोनियमस्वाध्यायाधभावरूपा संयमविराधना, श्वापदादिहिंसकप्राणिभिरात्मविराधना च सम्भवतीत्यतोऽनेकदिवसगमनीयमार्गे गमनाय मुनिः मनस्यपि विचार न कुर्यादिति ।। सू० २३ ।।