________________
चूर्णिभाष्यावचूरिः उ० १६ सू० २४-२९
जुगुप्सिकुलाशनादिग्रहणनिषेधः ३७१
सूत्रम् — जे भिक्खू विरूवरूवाई दस्सुयाययणाई अणारियाई मिल. क्खुईं पच्चंतियाई संति लाढे विहाराए संथरमाणेसु जणवसु विहाखडि. याए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥ सू० २४ ॥
छाया - -यो भिक्षुः विरूपरूपाणि दस्युकायतनानि अनार्याणि म्लेच्छानि प्रात्यन्तिकानि सति लाढे विहाराय संस्त्रियमाणेषु जनपदेषु विहारप्रतिज्ञया अभिसंधारयति अभिसंघारयन्तं वा स्वदते ॥ सू० २४ ॥
चूर्णी -- 'जे भिक्खू' इत्यादि । यः किश्चिद्विक्षुः श्रमणः श्रमणी वा 'विरूवरूबाई' विरूपरूपाणि शकयवनाद्यन्यान्यवेषभूषादिनाऽनेकप्रकारकाणि 'दस्तुयाययणाइ' दस्युकायतनानि दस्युकाः - चौरास्तेषामायतनानि - स्थानानि कीदृशानीत्याह - 'अणारियाइँ' अनार्याणि - अनार्यैः-आर्यभिन्नैः परिसेन्यमामानि 'मिलक्खुइँ' म्लेच्छानि - म्लेच्छैः परिसेव्यमानानि, तत्र म्लेच्छास्ते ये अव्यक्तभाषिणः यदा रुष्टास्तदा दुःखमुत्पादयन्ति धर्मे दुष्प्रबोधाः सर्वादरेण भोजनशीलाः अकालपरिभोगिनो रात्रावेव जागरणशीलाः धर्ममधर्मे मन्यमाना इत्थंभूता म्लेच्छास्तेषां स्थानानि, पुन. 'पच्चंतियाई' प्रात्यन्तिकानि प्रत्यन्तानि अनार्याणि तैः सेवितानि 'संति सादें" सति लाढे सत्यन्यस्मिन् देशे 'विहाराए' विहाराय ' संस्थरमाणेसु' संस्त्रियमाणेषु 'जणवएसु' जनपदेषु व्याख्या पूर्ववत् 'विहारवडियाए' विहारप्रतिज्ञया यो भिक्षुर्दस्युकानार्थम्लेच्छदेशेषु गमनाय विहार भावनया 'अभिसंधारेइ' अभिसंधारयति - विचारं करोति कारयति वा तथा 'अभिसंधारेंत वा' साइज्जइ' अभिसंधारयन्तं तत्र गमनाय विचारं कुर्वन्तं कारयन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति | सू० २४ ॥
सूत्रम् — जे भिक्खू दुगुंछियकुलेसु असणं वा पाणं वा खाइमं वा साइयं वा पडिग्गा हेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० २५ ॥
छाया -यो भिक्षुः जुगुप्सितकुलेषु अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृहाति प्रतिगृह्वन्तं वा स्वदते ।। सू० २५ ॥
चूर्णी – 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुर्गुंछियकुळेसु' जुगुप्सितकुलेषु - निन्दित कुलेषु, तच्च चर्मकार मद्यविक्रयि मद्यपायि- भिल्ल- धीवरादिकुलम्, यद्वा यद् हि यत्र देशें निन्दितत्वेन प्रसिद्धम् तेषु तथाविधेषु कुलेषु असणं वा' अशनं वा 'पाणं वा ' पानं वा 'खाइमं वा' खाद्यं वा 'साइम' वा' स्वाद्यं वा 'पडिग्गाहेइ' प्रतिगृह्णाति — स्वीकरोति 'पडिग्गार्हतं वा साइज्जर' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५ ॥