________________
पूर्णि० उ०१६ सू०-१९-२३ व्युगहव्युत्क्रान्तानां वसतिस्वाध्यायदानाऽऽदाननि० ३६९
सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं वसहि पडिच्छइ पडिच्छन्तं वा साइज्जइ ॥ सू० १९॥
छाया-यो भिक्षुर्युद्ग्रहन्युत्क्रान्तां वसति प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् सम्बन्धिकां तदाश्रयभूतामित्यर्थः । 'वसहि' वसतिम्स्थानम् 'पडिच्छइ' प्रतीच्छति-स्वीकरोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं-स्वीकुर्वन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १९॥ .
सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं वसहि अणुप्पविसइ अणुप्पविसंत वा साइज्जइ ।। सू० २०॥
छाया-यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानां वसतिमनुप्रविशति अनुप्रविशन्तं वा स्वदते ।। स० २० ॥
____ चर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रभणी वा 'बुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानां संबन्धिनी 'वसहि' वसतिम्-उपाश्रयम् अणुप्पविसई' 'अनुप्रविशति तेषामुपाश्रये प्रवेशं करोति । तथा 'अणुप्पविसंतं वा साइज्जइ' अनुप्रविशन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २०॥
सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं सज्झायं देइ देंतं वा साइ' ज्जइ ॥ सू० २१ ॥ ___ छाया यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानां स्वाध्यायं ददाति ददतं वा स्वदते ॥२१॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् 'सज्झायं' स्वाध्यायम्-स्वाध्यायपदवाच्यानां सूत्रार्थानां सूत्रार्थविषयकं ज्ञानं सूत्रार्थयोरध्ययनमित्यर्थः 'देइ' ददाति-सूत्रमर्थ तदुभयं वा अध्यापयतीत्यर्थः, तथा-'देत वा साइज्जइ' ददतं वा श्रमणान्तरं स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २१ ॥
सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं सज्झायं पडिच्छइ पडिच्छंत वा साइज्जइ ।। सू० २२॥
___ छाया - यो भिक्षुर्युद्ग्रहव्युत्कान्तानां स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० २२ ॥