________________
३६८
निशीथसूत्र चूर्णी- 'जे भिक्खू इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'चुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानां पूर्वोक्तस्वरूपाणां श्रमणानां श्रमणीनां वा संबन्धि तेभ्य इत्यर्थ 'असणं वा पाण वा खाइमं वा साइम वा' अशनादिकं चतुर्विधम् 'पडिच्छई' .प्रतीच्छति-स्वीकरोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा स्वदते स प्रायश्चित्तभागी ववति ॥ सु० १५ ॥
सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपोंछणगं वा देइ देंतं वा साइज्जइ ॥ सू०१६॥
छाया- यो भिक्षुयुद्ग्रहव्युत्कान्तानां वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छ. नकं वा ददाति ददतं वा स्वदते ॥सू० १६ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्विक्षुः श्रमणः श्रमणी वा 'बुग्गहचु. कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम्-श्रमणानां श्रमणीनां वा 'वर्थ वा' वनं वा-चोलपट्टप्रावरणादिकम् 'पडिग्गहं वा' प्रतिग्रहं वा-पात्रादिकम् 'कंवलं वा' कम्बलं वा-ऊर्णामयम् 'पायपोंछणगं वा' पादप्रोञ्छनकं वा रनोहरणम् 'देई' ददाति-समर्पयति तथा 'देतं वा साइज्जई' ददतं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६ ॥
सूत्रम्-जे भिक्खू बुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणगं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू० १७॥
छाया-यो भिक्षुर्युग्रहव्युत्कान्तानां वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनकं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ ९० १७ ॥
चूर्णी--'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहचुकंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् साधूनाम् सकाशात् 'वत्थं वा वस्त्रं वा-चोलपट्टादिकम् 'पडिग्गरं वा' प्रतिग्रहं वा-पात्रादिकम् 'कंबलं वा' कम्बलं वा 'पायपोंछणगं वा' पादप्रोञ्छनक वा-एतानि वस्त्रादीनि यः 'पडिच्छइ' प्रसीच्छति स्वीकरोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा-स्वीकुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ स० १७ ॥
सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं वसहिं देइ देंतं वा साइज्जइ ।। सू०१८॥
छाया--यो भिक्षुव्युद्ग्रहव्युत्क्रान्तानां वसति ददाति-ददतं वा स्वदते ॥ सू० १८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबुक्कंताण' व्युद्ग्रहव्युत्क्रान्तानाम् 'वसहि देई' वसतिम्-उपाश्रये आश्रयं ददाति तथा देंत वा साइज्जई' ददतं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥