________________
चूर्णि भाष्यावधूरिः उ०१६ सु०१४- १८ व्युप्रहव्युत्क्रान्तानामशनादिदानाऽऽदाननिषेधः ३६७ वसुराजिकम् - ज्ञानदर्शनचारित्राणामाराधकं 'वयई' वदति - कथयति स्नेहात् मोहाद्वा पोर्श्वस्थादिकमसाधुमपि अयं साधुरिति कथयति तथा 'वयंतं वा साइज्जइ' वदन्तमन्यं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्य आज्ञाभङ्गादिदोषा अपि भवन्ति ॥ सू० १२ ॥
सूत्रम् -- जे भिक्खू वसुराइयगणाओ अवसुराइयगणं संकमइ संक मंतं वा साइज्जइ ॥ सू० १३ ॥
छाया - यो भिक्षुः वसुराजिकगणात् अवसुराजिकगणं संक्रामति संक्रामन्तं वा स्वदते ॥ सू० १३ ॥
1
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' य कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वसुराइयगणाओ' वसुराजिकगणात् - ज्ञानदर्शनचारित्रतपः समाराधकाः वसुराजिकास्तेषां गणः- समुदाय - स्तस्मात् तादशसमुदायमध्यात् 'अवसुराइयगणं संकमइ' अवसुराजिकगणं संक्रामति - गच्छति - वसुराजिकानां गणम्-समुदायं परित्यज्य यः खल्ल मन्दभाग्यः अषसुराजिकानां गणं प्रति गच्छति तथा 'संकतं वा साइज्ज३' ज्ञानदर्शनचारित्राराधकानां गणं परित्यज्य ज्ञानाद्यनाराघकपार्श्व - स्थादिगणे सक्रामन्तं-गच्छन्तं वा श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३
सूत्रम् — जे भिक्खू वुग्गहवुक्कंताणं असणं वा पाणं वा खाइस वा साइमं वा देइ देतं वा साइज्जइ ॥ सू० १४ ॥
छाया - यो भिक्षुर्युद्द्महव्युत्क्रान्तानामशन वा पानं वा खाद्यं वा स्वाद्यं वा ददाति ददतं वा स्वदते ॥ सू० १४ ॥
चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबु क्कंताणं' ॰मुद्ग्रहव्युत्क्रान्तानाम्, तत्र व्युद्ग्रहोऽधिकरणं कलहः, तं कलहंकृत्वा ये व्युत्क्रान्ताःनिष्क्रान्तास्ते व्युद्ग्रहव्युत्क्रान्ताः तेषां श्रमणानाम् व्युद्हव्युत्क्रान्तेभ्यः श्रमणेभ्यः इत्यर्थः 'असणं' वा ' अशनं वा पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाद्यं वा 'देइ' ददाति - समर्पयति यो हि श्रमणः श्रमणी वा कलहं कृत्वा स्वगणादवक्रान्तस्तस्मै चतुर्विधमाहारजातं समर्पयति तथा 'देतं वा साइज्जइ' ददतं वा कलहकारिणे अशनादिकं समर्पयन्तं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १४ ॥
सूत्रम् - जे भिक्खु वुग्गहवुक्कंताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० १५ ॥
छाया - यो भिक्षुर्व्युद्ग्रहव्युत्क्रान्तानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० १५ ॥