________________
निशीथसूत्रे नाम्-अरण्यगामिनाम् 'वणवयाण' वनव्रजानाम्, तत्र वनं प्रति, व्रजन्ति-वने गच्छन्ति ये ते वनवजाः, तेषां वनगामिनाम् आजीविकार्थम् अरण्ये वने वा गच्छतामित्यर्थः, 'अडविजत्तासंपष्टियाण' अटवीयात्रासंप्रस्थितानाम्-वनयात्राथै निर्गतानाम् , तत्र वनवृक्षाकुलं निर्जनं भयङ्करं वनमटवी कथ्यते, तत्सम्बन्धिनी यात्रा-गमनरूपा तदर्थ संप्रस्थितानां काष्ठादिहरणार्थ निर्गतानां तथा वनोपजीविना काष्टहारेकाणां संबन्धि यो भिक्षुः 'असणं वा' अशनं वा-पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाद्यं वा 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति स्वीकारयति वा तथा 'पडिग्गाहेत वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरम् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति यतो यो वनं गच्छति स तु परिमितमेवाशनादिकं स्वस्याभोक्तुं गृह्णातिद् यदि साधुम्रहीष्यति तदा स पुरुषः स्वकीयोदरपणे कष्टमनुभविष्यति तस्मादरण्यादौ गच्छतां वनोपजीविनां. सम्बन्धि यदशनादिकं तत् न गृह्णीयात् न वा ग्राहयेत् न वा गृहन्तमनुमोदयेदिति ॥ सू० १० ॥
सूत्रम्--जे भिक्खू वसुराइयं अवसुराइयं वयइ वयंतं वा साइ. ज्जइ ।। सू० ११॥
छाया-यो भिक्षुर्वसुराजिकमवसुराजिकं वदति वदन्तं वा स्वदते ॥ सू० ११ ॥ ___ चूर्णी-'जे मिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वसुराइयं' वसुराजिकम्-विशुद्धज्ञानदर्शनचारित्राराधकं दमितेन्द्रियं जैनदीपकस्वरूपम् , तत्र वसूनि रत्नानि पञ्चमहाव्रतरूपाणि ज्ञानदर्शनचारित्रतपांसि वा भावरत्नानि तैः राजते-शोभते यः सं वसुराजिक तथा चैतादृशं वसुराजिकं मुनि 'अवमुराइयं' अवसुराजिकम्-ज्ञानदर्शनचारित्रतपोभावरत्नरहितं-'वयई' वदति-कथयति अर्थात् ज्ञानदर्शनचारित्राराधकं मुनिवर्यम् 'नायं वसुराजिकः अपितु धूत्तों वञ्चको विराधितसंयममार्गः' इत्यादिक्रमेण निन्दा करोति, तथा 'वयंत वा साइज्जई' वदन्तं वा तादृशश्रमणान्तरं यः कश्चित् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति ॥ सू० ११ ॥
सूत्रम्--जे भिक्खू अवसुराइयं वसुराइयं वयइ वयं वा साइज्जइ ॥सू०१२॥
छाया-यो भिक्षुरवसुराजिकं वसुराजिकं वदति वदन्तं वा म्बदते ॥ सू०१२ ।।
चूर्णी-'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अवसुराइयं' अवसुरानिकम् यः खल ज्ञानदर्शनचारित्राणामनागधकः श्रमणभिन्नः श्रमणसदशश्च केवलं वेषमात्रेण साधुसमानः ज्ञानदर्शनचारित्रात्मकरन्नरहितत्वात्, तमवसुराजिकं पार्श्वस्थादिकम् 'वसुराइयं'